________________
आह्निकम् ]
प्रमाणप्रकरणम् प्रामाण्यपदार्थविचारः
यदपि प्रमाणविशेषणमनधिगतार्थग्राहित्वमभिधीयते परैस्तदपि न साम्प्रतम्, प्रमाणस्य गृहीततदितरविषयप्रवृत्तस्य प्रामाण्ये विशेषाभावात् ।
ननु गृहीतविषये प्रवृत्तं प्रमाणं किं कुर्यात् ? प्रमामिति चेद् गृह्येतापि तामेव विधातुम् । कृतायाः करणायोगादिति चेन्न । प्रमान्तरकरणात् । प्रमान्तर- 5 करणे किं फलमिति चेत्प्रमान्तरकरणमेव फलम् । न च फलस्य फलं मृग्यम् । न च प्रयोजनानुवति प्रमाणं भवति, कस्य चैष पर्यनुयोगः, न प्रमाणस्याचेतनत्वात् । पुंसस्तु सन्निहिते विषये करणे च सम्भवन्ति ज्ञानानोति सोऽपि किमनुयोज्यताम् । किमक्षिणी निमील्य नास्से कस्माद् दृष्टं विषयं पश्यसीति । प्रमाणस्य तु न किञ्चित् बाध्यं पश्यामो येन तदप्रमाणमिति व्यवस्थापयामः । न च सर्वात्मनः 10 वैफल्यम , हेये हि कण्टकवृकमकरविषधरादौ विषये पुनः पुनरुपलभ्यमाने मनःसन्तापात्सत्वरं तदपहानाय प्रवृत्तिः। उपादेयेऽपि चन्दनघनसारहारमहिलादौ परिदृश्यमाने प्रीत्यतिशयः स्वसंवेद्य एव भवति । यच्चेदमुच्यते ।
यत्रापि स्यात्परिच्छेदः प्रमाणरुत्तरः पुनः।
नूनं तत्रापि पूर्वेण सोऽर्थो नावधृतस्तथा ॥ इति । तदपि न हृदयङ्गमम्, यतः
नवाधिकपरिच्छेदः प्रमाणरुत्तरैर्धवम् । ___ धारावाहिषु बोधेषु कोऽधिकोऽर्थः प्रकाशते ॥ न हि स्वहस्ते शतकृत्वोऽपि दृश्यमाने केचन विशेषाः परिस्फुरन्ति ।
ननु गृहीतेऽपि विषये प्रवर्त्तमानं प्रमाणं कदा विरमेन् न तस्य विरतौ कश्चिद- 20 वधिमवगच्छामः, प्रमोत्पादस्त्ववधिरनेन लवित एव । उच्यते। विषयान्तरसम्पर्काद्वा, प्रमादाद्वा, उपायसंक्षयाद्वा, विरामो भविष्यति । अनवस्थाऽपि चेयं न मूलविघातिनी । न ह्युत्तरोत्तरविज्ञानोपजननं विना प्रथमज्ञानोत्पादो विहन्यते ।
मूलक्षतिकरीमाहुरनवस्थां हि दूषणम् । मूलसिद्धौ त्वरुच्याऽपि नानवस्था निवार्यते।
25
धारावाहिष्विति । धारया अविच्छेदेन वहन्ति यानि तानि धारावाहीनि।