________________
३२
न्यायमञ्जऱ्यां
[प्रथमम्
5
10
यदपेक्षाधियो जातं द्वित्वमस्यैव तद्ग्रहः। संवेदनमपि प्रज्ञैः कस्यातिशय उच्यते ॥ ज्ञातुश्चेदन्तरान्येन व्यापारेणास्य को गुणः । ननु नैव क्रियाशून्यं कारकं फलसिद्धये ॥ उक्तमत्र क्रिया ह्यषा यथादर्शनमिष्यताम् । ज्ञानं संवेदनं वेति विद्मः पर्यायशब्दताम् ॥ संवेदनं तु ज्ञानस्य फलत्वेन न मन्महे । अर्थातिशयपक्षे तु सर्वसर्वज्ञता पुनः॥ भट्टपक्षाद्विशेषश्च न कश्चित्कथितो भवेत् । नोभयातिशयोऽप्येष दोषद्वितयसम्भवात् ॥ संवेदनञ्च तत्केन ग्राह्य ज्ञानानुमापकम् । अनवस्था भवेदस्य ज्ञाने संवेदनान्तरात् ॥ स्वसंवेद्या च संवित्तिरुपरिष्टानिषेत्स्यते। स्मृतिप्रमोषवादे च रजतस्मरणात्मिका ॥ कथं ते फलसंवित्तिः स्वप्रकाशा भविष्यति । नाभाति स्मृतिरूपेण न चाप्यनुभवात्मना । न तृतीयः प्रकारोऽस्ति तत्कथं सा प्रकाशताम् । न च क्वचिदनाकारा संवित्तिरनुभूयते ॥ इयं संविदयञ्चार्थ इति नास्ति ह्यभेदधीः । अर्थाकारानुरक्ता तु यदि संवित्प्रकाशते ॥ बाह्यार्थनिह्नवस्तहि त्वया सौगतवत्कृतः । स्वप्रकाशमते युक्तं न फलं संविदात्मकम् ॥ तस्मात्फलानुमेयस्य न व्यापारस्य मानता।
15
20
.
नाभाति स्मृतिरूपेण, प्रमोषाभावप्रसङ्गात् । न चाप्यनुभवात्मना। स्मृतेरनु25 भवात्मना प्रकाशे विपरीतख्यातवादापत्तेः ।