________________
प्रमाणप्रकरणम्
आह्निकम् ]
चलन्तो देवदत्ताधास्तदनन्तरमोदनः।
एतावद् दृश्यते त्वत्र न त्वन्या काचन क्रिया ॥ ___ एतेन भावनाख्यः करोत्यर्थः, पुरुषव्यापारो वाक्यार्थ इति योऽभ्युपगतः सौऽपि प्रत्युक्तो वेदितव्यः। न हि पुरुषव्यापारः कश्चिदुपलभ्यते विशिष्टगुणसमवाय एवास्य कर्तृत्वम् । न च ज्ञानादयो गुणा एव व्यापारसंज्ञा वाच्याः, सिद्ध- 5 स्वभावत्वात् । ज्ञानस्य क्रियात्वविचारः
ननु क्रियावचनो धातुरिति जानातेरपि क्रियैव वाच्या स्यात् सा च क्रिया ज्ञानात्मा पुरुषव्यापारः । नायं नियमः क्रियावचनो धातुरिति, 'गडि वदनैकदेशे' इत्यपि दर्शनात् । अपि च घटमहं जानामीत्यत्र भवतः किं प्रत्यवभासते ? घट- 10 मिति तावद्विषयः, अहमित्यात्मा, जानामीति तु चिन्त्यम्, किमत्र प्रकाशत इति, न व्यापारः, परोक्षत्वात् । फलं तु यद्यत्र प्रकाशते तदेव तहि धातुवाच्यमभ्युपगतं भवति । तस्मान्न क्रियात्मकं ज्ञानम् । यदि च क्रियात्मकं ज्ञानमभविष्यन्न भाष्यकारः क्रियातः पृथगेनं निरदेक्ष्यत । निर्दिशति च 'बुद्धिकर्मणी अपि हि प्रत्यभिज्ञायेते, ते अपि नित्ये प्राप्नुत' इति । तस्मादन्यज् ज्ञानमन्या च क्रियेति । न 15 क्रियास्वभावत्वान्नित्यपरोक्ष ज्ञानम् । यदि च नित्यपरोक्षो ज्ञानव्यापारः स तहि प्रतिबन्धाग्रहणादनुमातुमपि न शक्यः, क्रियाविशिष्टबाह्यकारकदृष्टान्तस्य निरस्तत्वात् । आत्माद्यनुमाने का वार्तेति चेन्न। तत्र सामान्यतो व्याप्तिग्रहणस्य सम्भवादिति वक्ष्यामः । इह तु बाह्यकारकेष्वपि न तत्पूर्वकं फलं दृष्टमित्युक्तम् । न चार्थापत्तिरपि ज्ञातृव्यापारकल्पनायव प्रभवति इन्द्रियार्थसन्निकर्षवशादेवार्थ- 20 दृष्टताया घटमानत्वात् । का चेयमर्थदृष्टता नाम ? किं दर्शनकर्मता? किंवा प्रकाशस्वभावतेति ? तत्र दर्शनस्य परोक्षत्वात्कथं तत्कर्मताऽर्थस्य दृष्टत्वाद गृहोत, विशेषणाग्रहणे विशिष्टप्रतीतेरनुत्पादात् । अर्थप्रकाशतायास्तु सर्वान प्रत्यविशेषात्सर्वे सर्वज्ञाः स्युः । न स्युः, सम्बन्धितयोत्पादादिति चेत् । अकारणमेतत् । अर्थस्यैव हि प्रकाशत्वमतिशयो दीपादेरिव, न पुरुषनियमेन व्यवतिष्ठते।
न च द्वित्वादिना साम्यं तस्मिन् नियमदर्शनात् । । प्रकाशे तु न दीपादौ सम्बन्धनियमः क्वचित् ॥