________________
न्यायमञ्ज
[प्रथमम् उत्तरस्मिन्पक्ष प्रत्येकमपि पाकक्रियायोगातसकारकान्तरनिरपेक्षादेकस्मात्कारकात्फलनिष्पत्तिप्रसङ्गः । न च तथाविधधात्वर्थपुरःसरः कारकाणां संसर्गः।
क्रियानिमित्तसंसर्गवादिनो हि द्वयी गतिः। सत्यां क्रियायां सम्बन्धः सम्बन्धे सति वा क्रिया ॥ मिलनात् पूर्वसिद्धायां क्रियायां मिलनेन किम् । तथा च जन्येत फलं विभक्तरपि कारकैः ॥ मिलनात्तु क्रियासिद्धौ पुनरेकैकमक्रियम् ।
तथा सति न काष्ठानि ज्वलेयुः पिठराविना ॥ काष्ठानि ज्वलन्ति, न तु पचन्ति। मैवम् । सत्यपि पिठरे ज्वलन्त्येव काष्ठानि नान्यत्कुर्वन्ति दृश्यन्ते । तस्मात्क्रियान्तराभावात्फलमेवोररीकृत्य कारकाणि संसृज्यन्ते।
ननु फलमपि सिद्धं चेत् कः सर्वेषां सिद्धस्वभावानां सम्बन्धः ? फलं सिद्धं कारकाणि च सिद्धानीति सम्बन्धाभावः। साध्यञ्चत्फलम् सैव क्रिया परिस्पन्दव्यतिरिक्तेति । मैवंवोचः फलस्य क्रियात्वानुपपत्तेः। ओदनं हि फलं न क्रिया। क्रियानाम्नि तु क्रियमाणे न विवदामहे ।
ननु पाक इदानीं कः ? न च 'पचे' च्यशून्यतैव युक्ता । उच्यते ।समुदितदेवदत्तादिसकलकारकनिकरपरिस्पन्द एव विशिष्टफलावच्छिन्नः पाक इत्युच्यते। स एव हि पचेरर्थः । ता एव काष्ठपिठरादिक्रिया ज्वलनभरणादिस्वभावाः पृथक्तया व्यवस्थितास्तथात्वेनैवावभासन्ते । समुदितास्तु सत्यः फलान्तरावच्छेदादूपान्तरेण पाकादिना परिस्फुरन्ति व्यपदिश्यन्ते च। तथा च देवदत्तः पचतीतिवत्काष्ठानि पचन्ति, स्थाली पचतीति, व्यपदेशो दृश्यते । देवदत्तस्यापि दर्वोविघट्टनादिरेव परिदृश्यमानस्तत्र व्यापार आत्मव्यापारपूर्वको भवितुमर्हति । नैतदेवम्, न ह्यात्मनो व्यापारः कश्चिदस्ति इच्छाद्वेषपूर्वकप्रयत्नवशादेव स भौतिकव्यापार
15
25 करणतां प्रतिपद्यते।
तस्मात्कारकचक्रेण चलता जन्यते फलम् । न पुनश्चलनादन्यो व्यापार उपलभ्यते ॥