SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ • प्रमाणप्रकरणम् 10 आह्निकम् ] प्रसङ्गात् कारकपदार्थविचारः ननु करोतीति कारक क्रियावेशमन्तरेण कारकत्वानुपपत्तेः। सत्यम् , करोतीति कारकं तत्तु फलमेव करोति न क्रियाम्। ___ ननु करोतीति यद् ब्रूषे सेयमुक्तैव क्रिया भवति, चैत्रः कटं करोतीति चैत्रस्येव कटस्येव करोत्यर्थम्याप्रत्याख्येयत्वात् तत्कृतमेव चैत्रादीनां कारकत्वम्। 5 उच्यते नातीन्द्रियक्रियायोगनिबन्धनः कारकभावः, क्रियाया अतीन्द्रियत्वेन तद्योगकृतकारकत्वानधिगमे व्यवहारविप्रलोपप्रसङ्गात् । क्रियावेशकृतं हि तत्कारकत्वमनवगच्छन्तः कथं फलार्थिनस्तदुपाददीरन् । मत्पक्षे कारकत्वं हि नास्ति किञ्चिदतीन्द्रियम् । कारकत्वस्वरूपस्य सहकार्यादिसन्निधिः ॥ तावदेव विनिश्चित्य तदुपादीयतेऽथिभिः । तदेवोपाददानश्च फलमप्यधिगम्यते ॥ निर्व्यापारस्य सत्त्वस्य को गुणः सहकारिभिः । सव्यापारस्य सत्त्वस्य को गुणः सहकारिभिः ॥ अथ व्यापार एवैष सर्वैः सम्भूय साध्यते। किं फलेनापराद्धं वस्तद्धि सम्भूय साध्यताम् ॥ तत्रैव धात्वर्थविचारः ___ यत्तु करोत्यर्थस्याप्रत्याख्येयत्वादित्युक्तं तत्रोच्यते परिस्पन्द एव भौतिको व्यापारः करोत्यर्थः। न हि वयं परिस्पन्दात्मकं परिदृश्यमानं व्यापारमपह नुमहे प्रतिकारक विचित्रस्य ज्वलनादेापारस्य प्रत्यक्षमुपलभ्भात् । अतीन्द्रियस्तु 20 व्यापारो नास्तीति ब्रूमहे। ननु पाको नाम धात्वर्थः परिदृश्यमानज्वलनादिव्यापारव्यतिरिक्त एषितव्य एव, तमन्तरेण फलनिष्पत्तेरभावात् । असति च तस्मिन् किमधिकृत्य कारकाणि संसृज्येरन् इत्युक्तम्, तदयुक्तम् । यं तमेकं धात्वर्थं साध्यं बुध्यसे स किं समुदितसकलकारकसम्पाद्यः, एकैककारकनिर्वयों वा। तत्राद्यपक्ष एकैकं भवेत्कारकमक्रियम् । एकैकनिष्क्रियत्वे च साकल्येऽपि कुतः क्रिया ॥
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy