________________
न्यायमञ्जऱ्यां
[प्रथमम् तस्य चक्षुरादिवदुपायत्वात्परोक्षोऽपि चासौ विषयप्रकाशतालक्षणेन फलेन कल्प्यते । तदाह भाष्यकारः 'न ह्यज्ञातेऽर्थे कश्चिदबुद्धिमुपलभते, ज्ञाते त्वनुमानादवगच्छतो ति । वात्तिककृताऽप्युक्तम् ।
नान्यथा ह्यर्थसद्भावो दृष्टः सन्नुपपद्यते।
ज्ञानञ्चेन्नेत्यतः पश्चात्प्रमाणमुपकल्प्यते ॥ इति । तदेष फलानुमेयो ज्ञानव्यापारो ज्ञानादिशब्दवाच्यः प्रमाणम् । इन्द्रियादीनां तदुत्पादकतया ज्ञानमुपचरति न साक्षादिति । तन्मतखण्डनम्
अत्र प्रतिविधीयते । अहो बत इमे केभ्यो विभ्यतः श्रोत्रियाः परं किमपि 10 वैक्लव्यमुपागताः । न खल्वनित्यं परोक्षं ज्ञानं भवितुमर्हति, ज्ञातोऽर्थ इति क्व
चित्तद्विशिष्टार्थप्रत्यवमर्शदर्शनाद्, विशेषणाग्रहणे शुक्लः पट इतिवद्विशिष्टप्रतीतेरनुत्पादात् । कश्चायमियान्सन्त्रासः, विषयग्रहणकाले विज्ञानाग्रहणमात्रकेण बाह्यार्थनिह्नववादिनः शाक्याः शक्याः शमयितुम् । यत्तु क्रियास्वभावत्वाततस्य
परोक्षत्वम् , तदयुक्तम् । न हि क्रियास्वभावं ज्ञानमपि तु फलस्वभावमेव । अपि 15 च क्रियाऽपि प्रत्यक्षद्रव्यत्तिनी प्रत्यक्षैव । भट्टानां प्रत्यक्षश्चात्मा। तत्किमनेनाप
राद्ध यदेतदीयक्रियाया अप्रत्यक्षत्वमुच्यते। न चोत्क्षेपणादिभेदभिन्नपरिस्पन्दात्मकव्यापारव्यतिरेकेण बाह्यकारकेष्वपि सूक्ष्मा नाम काचिदस्ति क्रिया । सा हि, यदि नित्या जातिवद्, अथानित्या रूपवद्वस्तुधर्म इष्येत । तत्र यदि नित्या
तहि सर्वदा वस्तुनः क्रियायोगात्सर्वदा फलनिष्पत्तिप्रसङ्गः। अथ कारकनिर्वा 20 क्रिया, सापीदानी कार्यत्वात् सव्यापारकारककार्या भवेदित्यनवस्था। निष्क्रिय
कारककार्यत्वे तु क्रियामिव फलमपि निष्क्रियाण्येव कारकाणि कुर्यरिति कि क्रियया ?
वस्थापरिहारेण विषयौन्नुख्यलक्षणा ससंरम्भावस्थाऽत्र ज्ञातृव्यापारः। नान्यथा
ह्यर्थसद्भाव इति । दृष्टत्वविशिष्टार्थसद्भावोऽन्यथानुपपद्यमानो ज्ञानं पश्चात् कल्पय25 तीत्यर्थदर्शनकाले ज्ञानावेदकप्रमाणाभावान्नाकारद्वयोपलम्भचोद्यप्रसङ्गावकाशः। पश्चात्
प्रमाणमुपकल्प्यते । ज्ञानग्राहकं प्रमाण ( अग्रे ग्रन्थस्त्रुटितः )