________________
आह्निकम् ]
प्रमाणप्रकरणम्
भवतीति साकारं ज्ञानमेवेदं सम्पन्नमिति पुनरन्योऽर्थः कल्पनीयः । सोऽपि ग्राह्यत्वास्वग्राहकस्य साकारत्वसिद्धये तत्रैव लीयत इति साकारं ज्ञानमेवावशिष्यत इति पुनरन्योऽर्थ इतीत्थमनवस्था प्रतिकर्मव्यवस्था तु जनकत्वनिबन्धना भविष्यति, वस्तुस्वभावस्यापर्यनुयोज्यत्वात् । साकारपक्षेऽपि पर्यनुयोगसाम्यमित्यादि सर्वमुपपरिष्टात् सविस्तरमभिधास्यते । साकारपक्षेऽपि च न प्रमाणाद्वयतिरिक्तं फलमु- 5 पर्शितमित्यसत्पक्ष एवायम् । तत्रैव भाट्टमतम्
शाबरास्तु ब्रुवते य एते बोधप्रामाण्यवादिनो विज्ञानादभिन्नमेव फलमभिदधति ते बाढं निरसनीया भवन्त्येव । वयं तु विज्ञानाद्भिन्नमेव फलमर्थदृष्टताख्यमभ्युपगच्छामः । तेनैव तदनुमीयते । ज्ञानं हि नाम क्रियात्मकम् । क्रिया च फला- 10 नुमेया । ज्ञातृव्यापारमन्तरेण फलानिष्पत्तेः संसर्गोऽपि कारकाणां क्रियागर्भ एव भवति । तदनभ्युपगमे किमधिकृत्य कारकाणि संसृज्येरन् । न चासंसृष्टानि तानि फलवन्ति । क्रियावेशवशाच्च कारकं कारकं भवति । अपरथा हि तद्वस्तुस्वरूपमात्रमेव स्याद् न कारकम् । ततश्च न फलाथिभिरुपादीयेतेति व्यवहारविप्रलोपः । तस्माद्यथा हि कारकाणि तण्डुलसलिलानलस्थाल्यादीनि सिद्धस्वभावानि 15 साध्यं धात्वर्थमेकं पाकलक्षणमुररीकृत्य संसृज्यन्ते, संसृष्टानि च क्रियामुत्पादयन्ति, तथात्मेन्द्रियमनोऽर्थसन्निकर्षे सति ज्ञानाख्यो व्यापार उपजायते। स च न प्रत्यक्षः, अर्थस्यैव बहिर्देशसम्बद्धस्य ग्रहणादाकारद्वयप्रतिभासाभावादगृहीतस्यापि प्रतीयमानोऽयनुमानेन कार्यलिङ्गरूपेण कल्यते। तस्य कल्प्यमानस्य यद् ग्राहक कार्यलिङ्गजमनुमेयज्ञानं तन्निराकारं कथं ग्राहकं स्यात् ? अतस्तत्र तेनाकारोऽपणीय 20 इति पुनरपि ज्ञानाकार एव संवृत्तः । पुनश्च तेन कार्येणान्योऽर्थः कल्पनीय इत्यनवस्था।
___ वस्तुस्वभावस्यापर्यनुयोज्यत्वादिति । यदि ब्रूयात् तुल्ये कारकत्वे कथमर्थस्यैव प्रतिभास्यत्वं न चक्षुरादेरिति, तत्रोत्तरम्-'वस्तुस्वभावोऽयम्' इति । तथा च भवद्भिरपि पर्यनुयुक्तः 'तुल्ये जनकत्वे कथमर्थस्यैवाकारग्राहि ज्ञानम्, नाक्षाणाम्' इति वस्तुस्वभावोऽयम्, इत्येवोत्तरं देयम्।
शाबरा इत्यादिना भाट्ट पक्षमुपक्रमते। ज्ञातृव्यापारमन्तरेणेति । निःसंरम्भा