________________
२६
[ प्रथमम्
किं कृत इति ? कर्त्तव्यं ज्ञानं प्रकाशस्वभावमिति ग्राहकम् । अर्थो जडात्मेति ग्राह्यमिति चेदयमपि विशेषस्तुल्यकारणयोः कुतस्त्यः ? उपादानसहकारिकारणभेदादिति चेन्न । तस्य क्षणभङ्गभङ्गे निराकारयिष्यमाणत्वात् ।
तत्र विज्ञानवादिमतम्
5
न्यायमञ्ज
ये हि निराकारस्य बोधरूपस्य नीलपीताद्यनेकविषयसाधारणत्वाज् जनकत्वस्य च चक्षुरादावपि भावेनातिप्रसङ्गात्तदाकारकृतमेव ज्ञानकर्मनियममवगच्छन्तः साकारविज्ञानं प्रमाणमिति प्रतिपेदिरे, तेऽपि विज्ञानाद्वैतसिषाधयिषयैवमभिदधानास्तन्निरासप्रसङ्ग एव निरसिष्यन्ते । न ह्येकमेव साकारं ज्ञानं ग्राह्यं ग्राहकच भवितुमर्हतीति वक्ष्यते । अर्थस्तु साकारज्ञानवादिनो न समस्त्येव । स 10 ह्यनुमेयो वा स्यात्प्रत्यक्षो वा ? नानुमेयः सम्बन्धग्रहणाभावात् ।
अर्थे हि सति साकारं निराकारं तदत्यये । नित्यानुमेयबाह्यार्थवादी ज्ञानं क्व दृष्टवान् ॥
नापि प्रत्यक्षोऽर्थः, आकारद्वयप्रतीत्यभावात्, अभ्युपगमे चानवस्थाप्रसङ्गात् । अर्थाकारो हि निराकारज्ञानगम्यो न भवतीति ज्ञानेनाकारवत्ता गृह्यते। सोऽय15 मिदानीं ज्ञानाकारोऽपि ग्राह्यत्वादन्येनाकारवता गृह्यते सोऽप्यन्येनेति । अथ वा अर्थो निराकारज्ञानगम्यो न भवतीति स्वग्राहके ज्ञानात्मनि समर्पितात्मा ‘दधानं तच्च तामात्मन्यर्थाधिगमनात्मना ' इति । अस्यार्थः - तज्ज्ञानं तामर्थरूपतां दधानं सद् यदा स्वकर्मणि स्वस्मिन् विषये ग्राह्ये नियतार्थग्रहणलक्षणेन व्यापारेण सव्यापारं नियतार्थग्रहणलक्षणव्यापारयोगीवाभाति । तस्मात् सैवार्थाकारता प्रमाणम्, तदुवशान् 20 नीलस्येदं पीतस्येदमिति नियतनीलाद्यर्थग्रहणवदिव ज्ञानं लक्ष्यत इति तात्पर्यम् । बौद्धमते निर्व्यापारत्वात् सर्वधर्माणाम् 'इव' शब्दोपादानम् । एवं च वैभाषिकमते इदं दूषणं कथं सङ्गच्छते ? सत्यम् । किन्तु स्वस्मिन् विषये ज्ञानस्य प्रामाण्यं तैरपीष्यते । अत एव तन्मतसंवादिन एव श्लोकाकारस्योपन्यासः कृतः । अथवा वैभाषिकरनिष्यमाणमपि बलादेतदङ्गीकार्यम्, अन्यथा निर्विषयत्वे ज्ञानस्य योगाचारदर्शना25 पत्तिप्रसङ्गात् ।
अथ वा अर्थों निराकारज्ञानगम्यो न भवतीत्यादिना अनुमानादर्थव्यवस्थापनेऽप्यनवस्थामाह – पुनरन्योऽर्थः कल्पनीय इति । साकारस्य ज्ञानस्याकारजनकोऽर्थो