________________
प्रमाणप्रकरणम्
आह्निकम् ] जननेन च लोकयात्रामुहहत्सु ज्ञानजन्मनि ज्ञानमुपादानकारणम्, अर्थः सहकारिकारणम, अर्थजन्मनि चार्थ उपादानकारणम्, ज्ञानं सहकारिकारणमिति, ज्ञानञ्च ज्ञानार्थजन्यमर्थश्चार्थज्ञानजन्यो भवतीत्येवमेकसामग्रयधीनतया तमर्थमव्यभिचरतो ज्ञानस्य तत्र प्रामाण्यमिति । साकारज्ञानवादिनां सौत्रान्तिकानां मतम्
तदिदमनुपपन्नम्, अफलजनकस्य प्रमाणत्वापत्तरित्युक्तत्वात् । अपि च कर्मणि ज्ञानं प्रमाणमिष्यते । यथोक्तम्,
'सव्यापारमिवाभाति व्यापारेण स्वकर्मणेति'।
स चायमर्थक्षणो ज्ञानसमकालस्ततः पूर्वाभ्यां ज्ञानार्थक्षणाभ्यामुपजनित इति तत्कर्मतां प्रतिपद्यतां न पुनःस्वसमानकालप्रसूतज्ञानक्षणकर्मतामिति ।
ननु च तुल्यसामग्रयधीनतया समानकालतया च तदव्यभिचारसिद्धौ क्व कर्मत्वमुपयुज्यते ? हन्त तहि सहोत्पन्नयोः समानसामग्रीकयोमा॑ह्यग्राहकनियमः सामग्रयधीनयोरित्युक्तम् । एकसामग्र्युत्पन्नत्वेन तस्यैव तद् ग्राहकम्, नान्यस्य; यथैतद्ग्रहणे तुल्यसामग्रयधीनत्वं तस्य नियामकमस्ति तथाऽन्यग्रहणे न किञ्चिदस्तीत्यर्थः। पूर्वभावी स्वसन्तानगतसदृशक्षण उपादानकारणम् । यदुक्तम् -
"सभागहेतुः सदृशाः स्वसन्तानभुवो क्षणाः।” इति । तदन्यः सहकारिकारणम् । तथा चाहुः- “ततोऽन्ये कारणं हेतुः सहभूये मिथः फलाः।" इति ।
यत्पुनद्वितीयमुपादानकारणलक्षणं कृतम्- 'यदुत्पत्तौ यत्सन्ताननिवृत्तिस्तत्तस्योपादानकारणम्' इति तद् विसदृशोत्पादाभिप्रायम् । तथाहि-घटोत्पत्तौ मृत्पिण्डसन्तान- 20 निवृत्तिः; अनुत्पन्ने हि घटे मृत्पिण्डक्षणा एव सन्तानेनोत्पद्यन्ते घटे तूत्पन्ने घटक्षणा इति ।
अपि च कर्मणि ज्ञानं प्रमाणमिष्यत इति । कर्म हि विषयो भण्यते, विषयश्च स भवति यमालम्ब्य भूतमभूतं ज्ञानं सत्तां प्रतिलभते । न चायं न्यायः सहोत्पद्यमानयोरस्ति। अत्रैव सामान्येन बौद्धदर्शनमात्राश्रयणेन ज्ञापकमाह-यथोक्तम्, 25 सव्यापारमिवाभातीति । ननु च साकारज्ञानवादिनामिदं वचनम् । तथा च पूर्वमर्धम