________________
न्यायमञ्ज
[प्रथमम्
ज्ञानस्यैव प्रमाणत्वं न वेति विचारः
ये तु बोधस्यैव प्रमाणत्वमाचक्षते न सूक्ष्मदर्शनास्ते । बोधः खलु प्रमाणस्य फलं न साक्षात्प्रमाणम् । करणार्थाभिधानो हि प्रमाणशब्दः प्रमीयतेऽऽनेनेति प्रमाणम् । प्रमीयते इति कोऽर्थः ? प्रमा जन्यते इति, प्रमाणादवगच्छाम इति च वदन्तो लौकिकाः करणस्यैव प्रामाण्यमनुमन्यन्ते। यस्तु प्रमा प्रमाणमिति प्रमाणशब्दः स प्रमाणफले द्रष्टव्यः। तथा च संशयविपर्ययात्मकं प्रमाणाद्धि भिन्नं फलमिति ज्ञानमात्ममनोऽनुमाने, तद्विशेषणार्थपरिच्छेदे वा, विशिष्टप्रमाणजननात्प्रमाणतां प्रतिपद्यते । अव्यभिचारादिविशेषणोपपन्नमपि ज्ञानमफलजनकमप्रमाणमेव प्रमाणमुच्यते।
तदयुक्तम् । सकलजगद्विदितबोधेतरस्वभावशब्दलिङ्गदीपेन्द्रियादिपरिहारप्रसङ्गात् । तस्मात्सामग्रयनुप्रविष्टबोधो विशेषणज्ञानमिव क्वचित्प्रत्यक्षे, लिङ्गज्ञानमिव लिङ्गिप्रमितौ, सारूप्यदर्शनमिवोपमाने, शब्दश्रवणमिव तदर्थज्ञाने, प्रमाणतां प्रतिपद्यते । अत एव बोधाबोधस्वभावा सामग्री प्रमाणमित्युक्तम् । निराकारज्ञानवादिवैभाषिकमतम् ।
अन्ये तुल्यसामग्रयधीनयोर्ज्ञानार्थयोाह्यग्राहकभावं वदन्तो बोधं प्रमाणमभ्युपागमन्, क्षणभङ्गिषु पदार्थेषु सहकार्युपादानकारणापेक्षक्षणान्तरसन्तति- .
10
15
तथा च संशयविपर्ययात्मकमिति । यदा करणसाधनेन प्रमाणशब्देन लोके व्यवहारः एवं सति फलस्य प्रमारूपस्याप्रामाण्यं सिध्यति । फलप्रमाणपक्षे पुनः
संशयज्ञानस्य, प्रमाणलक्षणविरहाद् यत् क्वचित् सिद्धं प्रामाण्यं 'संशयितोऽयमर्थः' इत्यादौ 20 विशेषणत्वेन तद्धीयते । फलान्तराजनकत्वेन च यदप्रामाण्यमकारकस्य फलस्य, तदपि न परिगृहीतं भवतीति तात्पर्यम् ।
ननु फलात्मकत्वेन तस्यार्थाधिगमे व्यापृतत्वात् प्रमाणत्वं भविष्यति, तन्नेत्याह"प्रमाणाद्धि भिन्नं फलम्" इति ।
__ अन्ये तुल्यसामग्रयधीनयोरिति । अजनकोऽप्यर्थः सहभाविज्ञानेन गृह्यत इति निराकारज्ञानवादिनां वैभाषिकाणां दर्शनम् । अजनकस्य च ग्राहकत्वेऽन्यस्यापि तत्कालभाविनोऽर्थक्षणस्य तज्ज्ञानं किमिति न ग्राहकमित्यतिप्रसङ्गनिवारणाय तुल्य