________________
प्रमाणप्रकरणम्
आह्निकम् ] पजननाविनाभाविस्वभावत्वाख्यसामग्रीसरूपसमारोपणनिबन्धनः । अन्यत्रापि च तद्रूपसमारोपणे स्थाल्या पचतीति व्यपदेशा दृश्यत एव । तस्मादन्तर्गतकारकापेक्षया लब्धकरणभावा सामग्री प्रमाणम् ।
अपरे पुनराचक्षते, सामग्री नाम समुदितानि कारकाणि, तेषां द्वरूप्यमहृदयङ्गमम्, अथ च तानि पृथगवस्थितानि कर्मादिभावं भजन्ते, अथ च तान्येव 5 समुदितानि करणीभवन्तीति कोऽयं नयः ? तस्मात्कर्तृकर्मव्यतिरिक्तमव्यभिचारादिविशेषणकार्थप्रमाजनकं कारकं करणमुच्यते ? तदेव च तृतीयया व्यपदिशन्ति । दीपेन पश्यामि, चक्षुषा निरीक्षे, लिङ्गन बुध्ये, शब्देन जानामि, मनसा निश्चिनोमोति।
ननु त्रीण्येव कारकाण्यस्मिन् पक्षे भवेयुः, ज्ञानक्रियायां तावदेवमेवैतद्यथा 10 भवानाह । पाकादिक्रियासु क्रियाश्रयसाधारणाद्युपकारभेदपर्यालोचनया भवत्वधिकरणादिकारकान्तरव्यवहारः । प्रमितौ तु मनोदीपचक्षुरादे लक्ष्यते विशेष इति तत्सर्व कारणत्वेन सम्मतम् । कस्तेषु तमबर्थ इति चेत्, 'अस्ति कश्चिद यदयं लोकोऽहं मया जानामि' 'घटेन घटं जानामि' इति न कर्तृकर्मणी विस्मत्यापि करणत्वेन व्यपदिशति । नयनमनोदीपशब्दलिङ्गादीनि तु तथा व्यपदिशति। 15 सोऽयमेषां पश्यति कर्तृकर्मवैलक्षण्यं चक्षुरादीनाम् । तद्वैलक्षण्यमेव च तेषामतिशय इति तदयमिह प्रमाणं प्रमाता प्रमेयं प्रमितिरिति चतुर्वर्गेणैव व्यवहारः परिसमाप्यते। तस्मात्कर्तृकर्मविलक्षणा संशयविपर्ययरहितार्थावबोधविधायिनी बोधाबोधस्वभावा सामग्री प्रमाणमिति युक्तम् ।
तस्मात् कर्तृकर्मविलक्षणा संशयविपर्ययरहितार्थावबोधविधायिनी 20 बोधाबोधस्वभावा सामग्री प्रमाणमिति युक्तमित्यत्र सामग्रीशब्दः समग्रप्रधानो द्रष्टव्यः । कर्तृकर्मव्यतिरिक्तं जनकं यत् तत् प्रमाणमित्यर्थः । अन्यथा ह्युपक्रमे कर्तृकर्मव्यतिरिक्तस्य कारकमात्रस्योदाहरणप्रदर्शनेन प्रमाणत्वं प्रतिज्ञायोपसंहारे सामग्रयास्तत्प्रतिपादनेनोपक्रमोपसंहारयोविरोधः स्यात् । एतच्च यथोपलब्धपाठानुसरणेन व्याख्यातम् । स्पष्टगमनिकाप्रायं चेत् पाठान्तरं क्वचिद् भवेत्, तत् सैव गनिकाऽस्तु। 25 एवमन्यत्रापि पाठानिश्चये द्रष्टव्यम् ।