________________
न्यायमञ्ज
[प्रथमम् ननु मुख्ययोः प्रमातृप्रमेययोरपि तदविनाभावित्वमतिशयोऽस्त्येव, प्रमितिसम्बन्धमन्तरेण तयोस्तथात्वाभावात् । प्रमिणोतीति प्रमाता भवति, प्रमीयते इति च प्रमेयम् । सत्यमेतत् । किन्तु साकल्यप्रसादलब्धप्रमितिसम्बन्धनिबन्धनः
प्रमातृप्रमेययोर्मुख्यस्वरूपलाभः, साकल्यापचये प्रमित्यभावाद् गौणे प्रमातृप्रमेये 5 सम्पयेते, एवञ्च साकल्यमन्तरेण प्रमितितमबर्थयोगात्तदेव करणम् । सामग्रीविचारः
यत्त किमपेक्षं सामग्रयाः करणत्वमिति ? तदन्तर्गतकारकापेक्षमिति ब्रूमः। कारकाणां धर्मः सामग्री न स्वरूपहानाय तेषां कल्पते, साकल्यदशायामपि तत्त्वरूपप्रत्यभिज्ञानात् ।
ननु समग्रेभ्यः सामग्री भिन्ना चेत्कथं पृथङ् नोपलभ्यते ? अभेदे तु सर्वकारकाणि करणीभूतान्येवेति कर्तृकर्मव्यवहारोच्छेदप्रसङ्गः । मैवम् । समग्रसन्निधानाख्यधर्मस्य प्रत्यक्षमुपलभ्भात् । पृथगवस्थितेषु हि स्थालीजलज्वलनतण्डुलादिषु न समग्रताप्रत्ययः । समुदितेषु तु भवतीत्यतस्तन्तुपटलपरिघटितपटाद्यवयविवत्कारककलापनिष्पाद्यद्रव्यान्तराभावेऽपि समुदायात्मिका सामग्री विद्यत एवेति समुदाय्यपेक्षया करणतां प्रतिपद्यते। तस्मान्न परिचोदनीयमिदं कस्मिकर्मणि सामग्री करणमिति । समुदायिनां सामग्रयवस्थायामपि स्वरूपानपायात् समुदायिविशेष कर्मणि सामग्री करणम् । अत एव न प्रमितेनिरालम्बनत्वम् । एतेन प्रमाता पृथगुपदर्शित इति विधाचतुष्टयमपि समाहितम् ।
यत्त्वभ्यधायि सामग्रयाः करणविभक्तिनिर्देशो न दृश्यत इति, तत्रोच्यते । र सामग्री हि संहतिः, सा हि संहन्यमानव्यतिरेकेण न व्यवहारपदवीमवतरति। तेन
सामग्री पश्यामीति न व्यपदेशः। यस्तु दीपेन्द्रियाणां तृतीयानिर्देशः स फलो
20
ननु मुख्ययोः प्रमातृप्रमेययोरिति । तत्कालं प्रमामकुर्वन्नपि योग्यतया यः प्रमातेति भण्यते स गौणः, यस्तु तत्कालमेव प्रमाजन्मनि व्याप्रियते स मुख्यः। एवं प्रमेयमपि।
कारककलापनिष्पाद्यद्रव्यान्तराभावेऽपीति । विजातीयानां द्रव्यारम्भकत्वादर्शनादिति भावः।
25