________________
आह्निकम् ]
प्रमाणप्रकरणम् प्रमातापि तस्यामेव लीनः । एवञ्च यदुच्यते 'प्रमाता प्रमाणं प्रमेयं प्रमितिरिति । चतसृषु विधासु तत्त्वं परिसमाप्यते' इति तद् व्याहन्यते । न च लोकोऽपि सामग्रयाः करणभावमनुमन्यते तस्यां करणविभक्तिमप्रयुञ्जानः। न ह्येवं वक्तारो भवन्ति लौकिकाः 'सामग्रथा पश्याम' इति, किन्तु 'दीपेन पश्यामः' चक्षुषा निरीक्षामह इत्याचक्षते । तस्मान्न सामग्री करणम्, अकरणत्वाच्च न प्रमाणमिति नेदं 5 साधु प्रमाणस्वरूपम्। करणस्वरूपविचारः - अत्रोच्यते-यत एव साधकतमं करणं करणसाधनश्च प्रमाणशब्दः, तत एव सामग्रयाः प्रमाणत्वं युक्तम् । तद्व्यतिरेकेण कारकान्तरे क्वचिदपि तमबर्थसंस्पर्शानुपपत्तेः । अनेककारकसन्निधाने कार्य घटमानमन्यतरव्यपगमे च विघटमानं 10 कस्मा अतिशयं प्रयच्छेत् ? न चातिशयः कार्यजन्मनि कस्यचिदवधार्यते, सर्वेषां तत्र व्याप्रियमाणत्वात् । सन्निपत्यजनकत्वमतिशय इति चेन्न । आरादुपकारकाणामपि कारकत्वानपायात् । ज्ञाने च जन्ये किमसन्निपत्य जनकम् ? सर्वेषामिन्द्रियमनोऽर्थादीनामितरेतरसंसर्गे सति ज्ञाननिष्पत्तेः। अथ सहसव कार्यजननमतिशयः, सोऽपि कस्याञ्चिदवस्थायां करणस्येव कर्मणोऽपि शक्यते वक्तुम् । अविरलजलधर- 15 धाराप्रबन्धबद्धान्धकारनिवहे बहुलनिशीथे सहसव स्फुरता विद्युल्लतालोकेन कामिनीज्ञानमादधानेन तज्जन्मनि सातिशयत्वमवाप्यते । एवमितरकारककदम्बसन्निधाने सत्यपि सीमन्तिनीमन्तरेण तद्दर्शनं न सम्पद्यते । आगतमात्रायामेव तस्यां भवतीति तदपि कर्मकारकमतिशययोगित्वात्करणं स्यात् तस्मात्फलोत्पादाविनाभाविस्वभावत्वमवश्यतया कार्यजनकत्वमतिशयः। स च सामग्रयन्तर्गतस्य न कस्यचिदेकस्य 20 कारकस्य कथयितुं पार्यते, सामग्रयास्तु सोऽतिशयः सुवचः । सन्निहिता चेत्सामग्री, सम्पन्नमेव फलमिति सैवातिशयवती।
चतसृषु विधास्विति । तत्त्वं परिसमाप्यते, अर्थः परिसमाप्तो भवति; नाधिकापेक्षोपयुज्यत इत्यर्थः।
सन्निपत्य जनकत्वमिति । अन्यकारकव्यापाराव्यवधीयमानव्यापारत्वं सन्निपत्य. 25 जनकत्वम्। फलोत्पादाविनाभाविस्वभावो यावन्न भवति, तावत् कथमवश्यतया कार्यजनको भवेत्, ताद्रूप्यं च सामग्रीतो नान्यस्येति ।