________________
न्यायमञ्जयां
[प्रथमम्
प्रकृतग्रन्थे निरूपणीयं वस्तु
अस्माभिस्तु लक्षणसूत्राण्येव व्याख्यास्यन्ते। परीक्षासूत्रसूचितं तु वस्तु सोपयोगलक्षणवर्णनावसरे एव यथाबुद्धि दर्शयिष्यते, न पृथक् परीक्षासूत्रविवरणश्रमः करिष्यते।
प्रथमसूत्रानन्तरं 'दुःखजन्मे'त्यादि द्वितीयं सूत्रं लक्षणानौपयिकत्वान्नेह विवृतम्, अपवर्गपरीक्षाशेषभूतत्वात्तु तदवसर एव निर्णेष्यते, प्रमाणसामान्यलक्षणम्, विभागसूत्रे त्ववसरप्राप्तत्वादिदानीमेव विवियते
"प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" ॥ इति प्रमाणपदार्थविचारः
अत्रेदं तावद्विचार्यते, किं प्रमाणं नाम ? किमस्य स्वरूपम् ? किं वा लक्षणमिति ? ततस्तत्र सूत्रं योजयिष्यते। तदुच्यते। अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धिं विदधती बोधाबोधस्वभावा सामग्री प्रमाणम् । बोधाबोधस्वभावा हि तस्य स्वरूपम् । अव्यभिचारादिविशेषणार्थोपलब्धिसाधनत्वं लक्षणम् । प्रमाणपदनिरुक्तिविचारः
ननु च प्रमीयते येन तत्प्रमाणमिति करणसाधनोऽयं प्रमाणशब्दः । करणञ्च साधकतमम्, तमवर्थश्चातिशयः, स चापेक्षिकः, साधकान्तरसम्भवे हि तदपेक्षयातिशययोगात् किञ्चित्साधकतममुच्यते । सामग्रयाश्चैकत्वात्तदतिरिक्तसाधकान्तरानुपलम्भात् किमपेक्षमस्या अतिशयं ब्रूमः ? अपि च कस्मिन्विषये सामग्रयाः प्रमाणत्वम् । प्रमीयमाणो हि कर्मभूतो विषयः, सामग्रचन्तरीभूतत्वात्सामग्रचेवेति करणतामेव यायात् । निरालम्बनाश्चेदानीं सर्वप्रमितयो भवेयुरालम्बनकारकस्य चक्षुरादिवत्प्रमाणान्तःपातित्वात् । कश्च सामग्रया प्रमेयं प्रमिमीते ? इत्यस्य विभागाक्षेपसूत्रस्यावतरणिकायाम् 'अयथार्थः प्रमाणोद्देशः' इति भाष्यकृद् विभागमुद्दे शशब्देन व्याजहार।
बोधाबोधस्वभावेति । विशेषणज्ञानादेर्बोधस्वभावस्य तत्रानुप्रवेशाद् बोधाबोध25 स्वभावेत्युक्तम्।