________________
प्रमाणप्रकरणम्
आह्निकम् ] ___ इत्येष षोडशपदार्थनिबन्धनेन निःश्रेयसस्य मुनिना निरदेशि पन्थाः।
अन्यस्तु सन्नपि पदार्थगणोऽपवर्गमार्गोपयोगविरहादिह नोपदिष्टः ॥ शास्त्रप्रवृत्तिप्रकारः
त्रिविधा चास्य शास्त्रस्य प्रवृत्तिरुद्देशो लक्षणं परीक्षेति । नामधेयेन पदार्थाभिधानमुद्देशः । उद्दिष्टस्य तत्त्वव्यवस्थापको धर्मो लक्षणम् । लक्षितस्य तल्ल- 5 क्षणमुपपद्यते न वेति विचारः परीक्षा।
ननु च विभागलक्षणा चतुर्थ्यपि प्रवृत्तिरस्त्येव, भेदवत्सु प्रमाणसिद्धान्तच्छलादिषु तथाव्यवहारात् । सत्यम् । प्रथमसूत्रोपदिष्टे भेदवति पदार्थे भवत्येव विभागः, उद्देशरूपानपायात्तु उद्देश एवासौ। सामान्यसञ्जया कीर्तनमुद्देशः, प्रकारभेदसञ्जया कीर्तनं विभाग इति । तथा चोद्देशतयैव तत्र तत्र भाष्यकारो 10 व्यवहरति 'अयथार्थः प्रमाणोद्देशः' इत्याक्षेपे, तस्माद् 'यथार्थ एव प्रमाणोद्देशः इति च समाधानमभिदधानः । तस्मात्त्रिविधैव प्रवृत्तिः। तत्रोद्देशः प्रथममवश्यं कर्तव्योऽनुद्दिष्टस्य लक्षणपरीक्षानुपपत्तेः । सामान्यविशेषलक्षणयोरपि पौर्वापर्यनियमोऽस्त्येव, अलक्षिते सामान्ये विशेषलक्षणावसराभावात् । परीक्षा तु लक्षणोत्तरकालभाविनीति तत्स्वरूपनिरूपणादेव गम्यते । विभागसामान्यलक्षणयोस्तु 15 नास्ति पौर्वापर्यनियमः, पूर्व वा सामान्यलक्षणं ततो विभागः पूर्व वा विभागस्ततः सामान्यलक्षणमुच्यत इति । तदिहोद्देशस्तावद्वयाख्यातः ।
इव प्रदीपो वेदप्रामाण्यकारणस्य तदर्थाधिगमोपायस्य च न्यायस्य प्रकाशनात् । उपायः सर्वकर्मणाम्। सुखावाप्तिदुःखपरिहारार्थेषु कर्मसु प्रवृत्तिरनुमानात् तत्साधनत्वनिश्चये सति यतो भवति, अतोऽनुमानव्युत्पादकत्वादियं सर्वकर्मणां प्रवृत्तावुपायः । आश्रयः 20 सर्वधर्माणाम् । धर्मस्वरूपमागमैकसमधिगम्यम् । आगमो न्यायापेक्षः सम्यग्धर्मावबोधको भवति, नान्यथा । यदाह
आर्ष धर्मोपदेशश्च वेदशास्त्राविरोधिना।
यस्तर्केणानुसन्धत्ते स धर्म वेद नेतरः॥ इत्यतस्तदधीनत्वाद् धर्मावबोधस्याश्रयः सर्वधर्माणामित्युक्तम् । अयथार्थः प्रमाणोद्देश इति । 'न चतुश्वमैतिह्यापत्तिसम्भवाभावप्रामाण्यात्'