________________
११
न्यायमञ्जयां
[प्रथमम् जल्पवितण्डे तु दुष्टताकिकोपरचितकपटदूषणाडम्बरसन्त्रास्यमानसरलमतिसमाश्वासनेन तद्धदयस्थतत्त्वज्ञानसंरक्षणाय क्वचिदवसरे वीतरागस्याप्युपयुज्येत इति वक्ष्यामः।
___ हेत्वाभासाः सम्यन्यायप्रविवेकोपकारद्वारेण तदुपयोगिनः । हेत्वाभास5 स्वरूपावधारणे हि सति तद्विलक्षणतया हेतवः सुखमवगम्यन्ते ।
___ नन्वत्र विपर्ययो दृश्यते, हेत्ववगमे सति तदितरहेत्वाभासव्यवस्थापनात् । सत्यमेवम्, तथाऽपि प्रयोक्तञ्च द्वयमपि ज्ञेयम्, हेतवः प्रयुज्यन्ते हेत्वाभासाश्च परिह्रियन्त इति । यच्च निग्रहस्थानपरिगणिता अपि हेत्वाभासाः पुनरुपदिश्यन्ते तद्वादे चोदनीया भविष्यन्तीत्याशयेन।
छलजातिनिग्रहस्थानानि जल्पवितण्डोपकरणानि । तेषामवधृतस्वरूपाणां स्ववाक्ये परिवर्जनम्, क्वचिदवसरे प्रयोगः, परप्रयुक्तानाञ्च प्रतिसमाधानमित्यादि शक्यक्रियम्, अतस्तान्यपि जल्पवितण्डाङ्गत्वाद् ज्ञातव्यानीति पृथगुपदिश्यन्ते।
दुःशिक्षितकुतर्काशलेशवाचालिताननाः। . शक्याः किमन्यथा जेतुं वितण्डाटोपपण्डिताः ॥ गतानुगतिको लोकः कुमार्ग तत्प्रतारितः । मा गादिति च्छलादीनि प्राह कारुणिको मुनिः ॥ तदेवमुपदेष्टव्याः पदार्थाः संशयादयः । तन्मूलन्यायनिर्णेयवेदप्रामाण्यसंविदे॥ तेनागमप्रमाणत्वद्वाराखिलफलप्रदा।
इयमान्वीक्षिकी विद्या विद्यास्थानेषु गण्यते ॥ आह च भाष्यकार:
प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् ।
आश्रयः सर्वधर्माणां विद्योद्देशे परीक्षितेति ॥
आह च भाष्यकार इति । भाष्यकारो हि-सेयमान्वीक्षिकी प्रमाणादिपदार्थैः 25 प्रविभज्यमानेत्येतत्सापेक्षत्वं श्लोकमिमं पपाठ-प्रदीपः सर्वविद्यानामिति । सेय
मान्वीक्षिकी विद्योद्देशाख्ये नीतिशास्त्रप्रकरणे परीक्षिता। या सर्वविद्यानां मध्ये प्रदीप