________________
प्रमाणप्रकरणम्
आह्निकम् ]
तर्कः संशयविज्ञानविषयीकृततुल्यकल्पपक्षद्वयान्यतरपक्षशैथिल्यसमुत्पादनेन तदितरपक्षविषयं प्रमाणमक्लेशसम्पद्यमानप्रतिपक्षव्युदासमनुगृह्णाति मार्गशुद्धिमावधान इति पृथगुपदिश्यते । स चाशय शुद्धिमुपदर्शयितुं वादे प्रयोक्ष्यत इत्यन्यतराधिकरणनिर्णयमन्तरेण न पर्यवस्यति । न्यायोपरमकारणत्वेन तस्य प्रवर्तको निर्णयः, इतरथा निरवसानमनासादितफलं को नाम न्यायमारभेत ।
ननु तत्त्वज्ञानपदेन गतार्थत्वान्न पृथग् वक्तव्यो निर्णयः, निर्णयो हि तत्त्वज्ञानमेव । अस्त्येतत्, किं तु षोडशपदार्थतत्त्वज्ञानं प्रमाणान्तरकरणकमपि भवति । न तस्य न्यायोपरमहेतुत्वम्, एष तु साधनदूषणसरणिक्षोदजन्मा निर्णयस्तदुपरमहेतुः पृथगुपादानमन्तरेण न लभ्यते।
नन्वनुमानपदादेव, तहि यथाभिलषितो लप्स्यते निर्णयः ? तदयुक्तम् । 10 अनुमानफलं निर्णयः, नानुमानम्। करणस्य प्रमाणत्वान्निर्णयोपादानमन्तरेण तदनुमानमफलमपर्यवसितं स्यात् । उभाभ्यां तहि तत्त्वज्ञानानुमानपदाभ्यामयमाक्षेप्स्यते निर्णयः, अनुमानस्य तत्त्वज्ञानान्तत्वात् ? न निर्णयोपादानाद् विना तदन्तत्वासिद्धः, लिङ्गाभाससमुत्थतत्त्वज्ञानाभाससम्भवात् ।
ननु संशयपूर्वकत्वादनुमानस्य सामर्थ्यान्निर्णयान्ततैव भविष्यतीति 15 संशयानुमानतत्त्वज्ञानर्गतार्थो निर्णयः ? मैवम्; संशयपूर्वकत्वेऽप्यनुमानस्य तदाभासोपजनितनिर्णयाभाससम्भवात्। न चैष नियमः संशयपूर्वकमनुमानमिति । तस्मादनुमानस्य विशिष्टनिर्णयावसानत्वलाभाय निर्णयपदमुपादेयमित्यलं प्रसङ्गन ।
वादे तु विचार्यमाणे न्यायः संशयच्छेदनेनाध्यवसितावबोधम, अध्यवसिताभ्यनुज्ञातञ्च विदधत् तत्त्वपरिशुद्धिमादधातीति वीतरागैः शिष्यसब्रह्मचारिभिः 20 सह वादः प्रयोक्तव्यः।
स चाशयशुद्धिमुपदर्शयितुमिति । तर्कस्य प्राङ्नीत्या यद्यपि स्वतः साधनभावो नास्ति, तथाप्याशयशुद्धि वीतरागत्वं प्रकटयितुम् । तर्कक्रमेण स्वार्थानुमानकाले यथाप्रतिपन्नः स्वयमसावर्थस्तथैव परस्य प्रतिपाद्यते, वीतरागकथात्वाद् वादस्येति । ___ संशयानुमानतत्त्वज्ञानैरिति । संशये सति यदनुमानं तत उत्पद्यते यत् 25 तत्त्वज्ञानम्, तन्निर्णयस्वभावमेवेति ।