________________
१६
5
10
न्यायमञ्जय
उपमानन्तु क्वचित् कर्मणि सोपयोगमित्येवं चतुष्प्रकारमपि प्रमाणं प्रमेयवद् उपदेष्टव्यम् । संशयादयस्तु पदार्था यथासम्भवं प्रमाणेषु प्रमेये चान्तर्भवन्तोऽपि न्यायप्रवृत्तिहेतुत्वात् पृथगुपदिश्यन्ते । न्यायश्च वेदप्रामाण्य प्रतिष्ठापनपूर्वकत्वेन पुरुषार्थोपयोगित्वमुपयातीति दर्शितम्
तत्र नानुपलब्धेऽर्थे न निर्णीते प्रवर्तते । किं तु संशयिते न्यायस्तदङ्गं तेन संशयः ॥ प्रयोजनमनुद्दिश्य न च न्यायं प्रयुञ्जते । दृष्टान्तः पुनरेतस्य सम्बन्धग्रहणास्पदम् ॥
सिद्धान्तोऽपि धर्मप्रापणेनाश्रयासिद्धतामपोद्धरन्न्यायं प्रवर्तयति ।
ननु संशयपदेन न्यायविषयं सन्दिग्धं धर्मिणमभिदधताऽऽश्रयासिद्धि15 रपोद्धृतैव । सत्यम् । क्वचित् तु विषये संशयमन्तरेण न्यायप्रवृत्तिर्दर्शयिष्यत इति संशयिक विषयन्यायनियमाभावात् सिद्धान्तोऽपि वक्तव्यः ।
25
प्रतिबन्धग्रहे तस्य प्रत्यक्षमुपयुज्यते । कोऽन्यस्सन्तरणे हेतुरनवस्थामहोदधेः ॥ आयुर्वेदादिवाक्येषु दृष्ट्वा प्रत्यक्षतः फलम् । वचःप्रमाणमाप्तोक्तमिति निर्णीयतां यतः ॥
[ प्रथमम्
न्यायाभिधानेऽवयवाः परं प्रत्युपयोगिनः । परार्थमनुमानञ्च तदाहुन्ययवादिनः ॥
ननु प्रतिज्ञोदाहरणाभ्यां तदभिधेयौ सिद्धान्तदृष्टान्तौ गम्येत एव, कि 20 पृथगुपादानेन ? यद्येवं हेत्वाख्येनावयवेन तदभिधेयसिद्धेरनुमानमपि पृथङ् न वक्तव्यं स्यात् । एवं भवतु किं नश्छिन्नम् ? मैवम्, अभिधेये न्याये निरूपणीये तदभिधायिनामवयवानामवसर इति तदर्थः प्रथमं व्युत्पादनार्हो भवति, इतरथा अवयवमात्रोपदेश एव शास्त्रं समाप्येत ।
उपमानं तु क्वचित् कर्मणि सोपयोगं 'गवयमालभेत' इत्यादौ ।
संशयमन्तरेण न्यायप्रवृत्तिरिति । यदा कार्यान्तरप्रयुक्तो देशान्तरं गच्छन् सहसैव धूमावलोकनादग्निमनुमिमीते, तदा संशयं विनापि न्यायप्रवृत्तेरुपलम्भः ।