________________
आह्निकम् ]
प्रमाण प्रकरणम्
दृष्टत्वात्, देवदत्तस्य गुरुकुलमिति । उपसर्जनं नोपसर्जनमिति । न कारणमेतत्, समासे विग्रहवाक्य समानार्थतया समासो भवति, सा चेह विद्यत एव । वैयाकरणा अपि दृशि पदानि समस्यन्त्येव, "अथ शब्दानुशासनम् । केषां शब्दानाम् ? लौकिकानां वैदिकानाञ्चेति" । तस्माद् यथाभाष्यमेव षष्ठीत्रयव्याख्यानमनवद्यम् । शास्त्रप्रतिपाद्यविचारः
तस्य प्रामाण्यनिर्णीतिरनुमाननिबन्धना । आप्तोक्तत्वञ्च तल्लिङ्गमविनाभावि वक्ष्यते ॥
१५
ननु षोडशपदार्थतत्वज्ञानस्य कथं निःश्रेयसाधिगमहेतुत्वमिति वक्तव्यम् । वेदप्रामाण्यसिद्धयर्थञ्चेदं शास्त्रमिति तावन्मात्रमेव व्युत्पाद्यताम्, कि षोडशपदार्थ - कन्याग्रन्थनेन ? उच्यते । आत्मापवर्गपर्यन्तद्वादशविधप्रमेयज्ञानं तावदन्यज्ञानानौपयिकमेव साक्षादपवर्गसाधनमिति वक्ष्यामः । तत्त्वज्ञानान्मिथ्याज्ञाननिरासे सति तन्मूलः संसारो निवर्तत इति, प्रमेयं तावदवश्योपदेश्यम् । तस्य तु प्रमेयस्यात्मादे - 10 रपवर्गसाधनत्वाधिगम आगमैकनिबन्धनः ।
5
अन्यज्ञानानौपयिकमिति । अन्यज्ञानमनौपयिकमद्वारमनुपायो यस्य । उपाय एवौपयिकमिति स्वार्थे विनयादिपाठात् ठक् ह्रस्वश्च । अन्यज्ञानस्य वाऽनुपायः सदपवर्गसाधनं न पुनः प्रमाणादिज्ञानमिव प्रमेयज्ञानोपायतयेत्यर्थः ।
उपसर्जनं नोपसर्जनमिति । ' इदमुमसर्जनमतः पदान्तरसापेक्षं न समस्यते, इदन्तु नोपसर्जनं प्रधानम्, अतः पदान्तरसापेक्षमपि समस्यते' इति 15 न कारणम् । विग्रहवाक्यसमानार्थतेति वोच्यते । तहि विशेषतो गृह्यते निश्चीयते समासार्थः । तथा हि-- ' राजपुरुषः' इत्यादौ किं 'राज्ञः पुरुषः' आहोस्वित् 'राजा पुरुषो यस्य' अथ 'राजा चासौ पुरुषश्र्व' इत्याद्याः शङ्काः 'राज्ञः पुरुषः ' इत्यनेन निवर्तन्ते । तेन विग्रहवाक्येन तुल्यार्थता यत्र तत्र समासः । ' राजपुरुषः शोभनः' इत्यत्र 'राज्ञः पुरुषः शोभनः' इति विग्रहवाक्यासभानार्थतया समासो न, प्रधानस्य 20 सापेक्षत्वात् । ‘ऋद्धस्य राज्ञः पुरुषः' इत्येतद्विग्रहवाक्यसमानार्थत्वाभावाद् ऋद्धस्य राजपुरुषः' इत्यसमासः, नोपसर्जनस्य सापेक्षत्वात्। शब्दानुशासनमित्यत्र शब्दानामनुशासनमिति समासः केषां शब्दानामित्येतत्सापेक्षस्यापि 'शब्द' शब्दस्य, अन्यथा समासे गुणीभूतस्य केषामिति प्रत्यवमर्शो न स्यात् ।
25