________________
न्यायमञ्जर्यां
[ प्रथमम्
प्रत्यवस्थानं जातिः । सत्यवस्त्वप्रतिभासो विपरीत प्रतिभासश्च निग्रहस्थानम् तत्र वक्ष्यमाणलक्षणसूत्रनिर्देशानुसारेण कानिचिदेकवचनान्तानि पदानि विग्रहे ग्रहीतव्यानि । प्रमाणावयवहेत्वाभासानां बहुवचनेन विग्रहो दर्शयितव्यः, शेषाणामेकवचनेन लक्षणसूत्रेषु तथा निर्देशात् । एवञ्चोद्देशलक्षणयोरेकविषयता 5 नितरां दर्शिता भवति । इतरेतरयोगे द्वन्द्वः समासः ।
प्रथम सूत्रार्थविचारः
१४
10
तत्त्वप्रमाणादिपदसापेक्षत्वेनासमर्थत्वादसमासः प्राप्नोति, सापेक्षमसमर्थं भवतीत्याहुः । न चेदं प्रधानं सापेक्षम्, येन भवति वै प्रधानस्य सापेक्षस्यापि समास इति । 'राजपुरुषः शोभनः' इतिवत् समस्येत । उत्तरपदार्थप्रधानत्वात् षष्ठीतत्पुरुषस्य ज्ञानमेवात्र प्रधानं तत्त्वमुपसर्जनम् । अतश्च 'ऋद्धस्य राज्ञः पुरुष' इतिवदसमास एव युक्तः ।
ननु ज्ञानमपि प्रमाणादिसापेक्षं भवत्येव तद्विषयं हि तदिति । न, तत्त्वपदेनास्य निराकाङ्क्षीकृतत्त्वात् । तत्त्वस्य ज्ञानमिति, तदिदानीं तत्त्वमेव सापेक्षं वर्तते, कस्य तत्त्वमिति । तस्मात् तत्त्वस्योपसर्जनस्य सतः सापेक्षत्वादसमास एवेत्येवमभिशङ्कमानाः केचन 'तत्त्वं च तज्ज्ञानं च' इति कर्मधारयं व्याचचक्षिरे । तत् पुनरयुक्तम्, ज्ञानस्य स्वतस्तत्त्वातत्त्वविभागाभावात् । विषयकृतो हि ज्ञानानां तथाभावः, अतथाभावो वा ? तदेतत् तत्त्वविषयज्ञानं भवति, न स्वतस्तत्त्वस्वभावम् । किं पुनरिदं तत्त्वं नाम ? सतोऽसतो वा वस्तुनः प्रमाणपरिनिश्चितस्वरूपम्, शब्दप्रवृत्तिनिमित्तं तदित्युच्यते । तस्य भावस्तत्त्वमिति । तच्च ज्ञानेन निश्चीयते । तत्परिच्छिन्दज्ज्ञानं तत्त्वज्ञानमित्युच्यते । ज्ञानस्यापि तद्रूपं ज्ञानान्तरपरिच्छेद्यमेव भवति । निर्णेयतत्त्वाच्च प्रमाणादय इति व्यतिरेकनिर्देश एव युक्तः । न चासमास25 प्रसङ्गमात्रादन्यथावर्णनमुचितम् ईदृशानां समासानां सामर्थ्यानपायेन बहुशो
15
प्रमाणादीनां तत्त्वमिति सम्बन्धमात्रे षष्ठी ।
तत्त्वस्य ज्ञानं निःश्रेयसस्याधिगम इति कर्मणि षष्ठ्यौ, तत्त्वस्य ज्ञायमानत्वेन निःश्रेयसस्य चाधिगम्यमानत्वेन कर्मत्वात् ।
नन्वेवं व्याख्यायमाने
20
निर्णेयतत्त्वाच्चेति । प्रमाणादीनां तत्त्वस्यैवात्र निर्णीयमानत्वात् तत्त्वस्य ज्ञानमिति व्यतिरेकनिर्देश एव युक्त इत्यर्थः ।