________________
आह्निकम् ]
प्रमाण प्रकरणम्
यदपि प्रवृत्तिहेतोरर्थ संशयस्य तर्कापरनाम्न औचित्यस्य वा समुत्पादनaftarra saa इति केचिदाचक्षते, तदपि प्रयोजनाभिधानद्वारकमेव । प्रयोजनविषयो हि संशयो वा, सम्भावनाप्रत्ययो वा प्रवृत्त्यङ्गभूतस्तेनोत्पादनीय इति तदुत्पत्तौ प्रयोजनाभिधानमेवादिवाक्यस्य व्यापारः । संशयस्तु वस्तुवृत्तोपनत एव, पुरुषवचसां द्वैविध्यदर्शनात् । शौचसमाचारसाधुतादिना तु तस्मिन् सम्भावनाप्रत्ययोsपि लोकस्य भवतीति । तस्मात् प्रयोजनप्रतिपादनार्थमेवादिवाक्यमिति सूक्तम् ।
यच्च श्रोतृप्रवृत्त्यङ्गं तद्वक्तुं युक्तमादितः । न च प्रयोजनज्ञानादन्यदस्ति प्रवर्तकम् ॥ अभिधेयकथनमपि तत्साध्यप्रयोजनोपपादनाय, श्रोतृबुद्धिसमाधानाय च
कर्तव्यमेव ।
अर्थाक्षिप्तस्तु सम्बन्धः फलशास्त्राभिधेयेगः । तन्निर्देशेन सिद्धत्वान्नं स्वकण्ठेन कथ्यते ॥
अनुबन्धचतुष्टयवर्णनम्
अभिधेयस्य शास्त्रस्य वाच्यवाचकभावलक्षणः संम्बन्धः, शास्त्रार्थस्य निःश्रेयसस्य च साध्यसाधनभावः सम्बन्धः, तदाश्रयनिर्देशादेव सिद्धः । अभिधेयस्वरूपवर्णनम्
१३
त्रैकाल्यासिद्धेर्हेतोरहेतुसमः । अहेतुसमादीनां प्रत्यवस्थानानां हेतुप्रतिबिम्बनरूपत्वाभिप्रायं प्रायोग्रहणम् ।
5
10
15
अभिधेयास्तु प्रमाणादयो निग्रहस्थानपर्यन्ताः षोडश पदार्थाः प्रथमसूत्रे निर्दिष्टाः । तेषां स्वरूपमुपरिष्टाद् वक्ष्यते । अर्थपरिच्छित्तिसाधनानि प्रत्यक्षादीनि प्रमाणानि । तत्परिच्छेद्यमात्मादि । नानार्थावमर्शः संशयः । हिताहितप्राप्तिपरिहारौ 20 तत्साधनञ्च प्रयोजनम् । हेतोः प्रतिबन्धावधारणं दृष्टान्तः । प्रमाणतोऽभ्युपगम्यमानः सामान्यविशेषवानर्थः सिद्धान्तः । परार्थानुमानवाक्यैकदेशभूताः प्रतिज्ञादयोऽवयवाः । सन्दिग्धेऽर्थेऽन्यतरपक्षानुकूलकारणदर्शनात् तस्मिन् सम्भावनाप्रत्ययस्तर्कः । साधनोपालम्भजन्मा तत्त्वावबोधो निर्णयः । वीतरागवस्तुनिर्णयफलो वादः । विजिगीषुकथा पुरुषशक्तिपरीक्षणफला जल्पः । तद्विशेषो वितण्डा । अहेतवो हेतुवदव- 25 भासमाना हेत्वाभासाः। अर्थविकल्पैर्वचनविघातश्छलम् । हेतुप्रतिबिम्बनप्रायं