________________
१२
10
प्रयोजनज्ञानादेव शास्त्रे प्रवृत्तिः
ननु प्रयोजनपरिज्ञानमादौ श्रोतॄणां कुतस्त्यमिति चिन्त्यताम् । किमस्मादेव वाक्यात्, उत युक्तितः ? वाक्यं तावदनिश्चितप्रामाण्यं कथं प्रयोजननिश्चयाय प्रभवति ? संशयाद्वा प्रवृत्तो वेदार्थेऽपि तथैव स्यादिति शास्त्रमनारब्धव्यं स्यात् । 5 युक्तितः प्रयोजनावगमः शास्त्रे सर्वस्मिन्नधीते सति सम्भवति, नेतरथेति तदवगम
पूर्विकायां प्रवृत्तावितरेतराश्रयः । शास्त्राधिगमनात् प्रयोजनपरिज्ञानम्, प्रयोजनपरिज्ञानाच्च शास्त्रश्रवणे प्रवृत्तिः । उच्यते । आदिवाक्यादेव श्रोतुः शास्त्रप्रयोजनपरिज्ञानम्, अर्थसंशयाच्च श्रवणे प्रवृत्तिः ।
वेदे सिद्धप्रामाण्ये महाक्लेशेषु कर्मसु । नानार्थशङ्कया युक्तमनुष्ठानप्रवर्तनम् ॥ बहुवित्तव्ययायासवियोगसुगमेऽध्वनि । प्रवृत्तिरुचितोदारफले लघुपरिश्रमे ॥ शृण्वन्त एव जानन्ति सन्तः कतिपयैदिनः । किमेतत्फलं शास्त्रमुत मन्दप्रयोजनम् ॥ सूक्ष्मेक्षिका तु यद्यत्र क्रियते प्रथमोद्यमे । असौ सकलकर्तव्यविप्रलोपाय कल्पते ॥ आर्तो हि भिषजं पृष्ट्वा तदुक्तमनुतिष्ठति । तस्मिन् सविचिकित्सस्तु व्याधेराधिक्यमाप्नुयात् ॥ तेनादिवाक्याद् विज्ञाय साभिधेयं प्रयोजनम् । तत्सम्भावनया कार्यस्तच्छास्त्रश्रवणादरः ॥
15
20
न्यायमञ्ज
25
[ प्रथमम्
यादिवाक्यमित्थं व्याख्यायते किलानन्वितपदार्थकं वाक्यमनुपादेयम्, दशदाडिमादिवाक्यवत्; अन्वितपदार्थकमपि निष्प्रयोजनमनुपादेयमेव सदसद्वायसदशनविमर्श वाक्यमिव तदिहोपादेयताव्यापक प्रयोजनाद्यनुपलम्भादनादरणीयत्व
मिति व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानः प्रयोजनाद्यभिधायिनाऽऽदिवाक्येन निवृत्ताशङ्कः क्रियत इति; तैरपि प्रयोजनप्रतिपादनमेवादिवाक्यस्यार्थ इत्युक्तं व्यापकानुपलब्धिपरिहारादाशङ्का निवारिता
भवति ।
तत्प्रतिपादनेनैव
भवतीति ।