________________
आह्निकम् ]
शास्त्रप्रणेतुस्तत्त्वज्ञत्वम्
कुतः पुनरस्यर्षेरपि निश्चितमतित्वं जातम् ? उच्यते भवति तावदेष निश्चितमतिः । स तु तपःप्रभावाद् वा देवताराधनाद् वा शास्त्रान्तराभ्यासाद् वा भवतु, किमनेन ? तत्रैतत् स्यात् तत एव शास्त्रान्तरादस्मदादेरपि तत्त्वाधिगमो भविष्यतीति किमक्षपादप्रणीतेन शास्त्रेण ? परिहृतमेतत्, संक्षेपविस्तरविवक्षया शास्त्रप्रणयनस्य साफल्यात् । विचित्रचेतसश्च भवन्ति पुरुषा इत्युक्तम् । येषामित एवाज्ञानसंशय विपर्ययाविनिवर्तन्ते तान् प्रत्येतत्प्रणयनं सफलमितीदं प्रणीतवानाचार्यः । तत्रेदमादिसूत्रम् -
प्रमाण प्रकरणम्
साधिगमः । "
प्रथमसूत्रं प्रयोजनीयं न वा??
ननु किमर्थोऽयमादिवाक्यारम्भः ? कोऽयं प्रश्नः ? शास्त्रं चेदारम्भणीयं क्रमवृत्तित्वाद् वाचः प्रथममवश्यं किमपि वाक्यं प्रयोक्तव्यम् । न ह्यादिवाक्यमकृत्वा द्वितीयादिवाक्यप्रणयनमुपपद्यत इति ग्रन्थकरणमेवाघटमानं स्यात् ।
“प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयव तर्क निर्णयवाद जल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां
तत्त्वज्ञानान्निःश्रेय 10
शास्त्रादावभिधेयादिवर्णनप्रयोजनम्
आह- न खल्वेवं न जाने, किन्तु यदेव शास्त्रे व्युत्पाद्यत्वेन स्थितं तदेव · व्युत्पाद्यताम्, किमादौ तदभिधेयप्रयोजनकीर्तनेन ? उच्यते ।
आदिवाक्यं प्रयोक्तव्यमभिधेयप्रयोजने ।
प्रतिपादयितुं श्रोतृप्रवाहोत्साह सिद्धये ॥ अभिधेयफलज्ञानविरहास्त मितोद्यमाः
I
श्रोतुमल्पमपि ग्रन्थमाद्रियन्ते न सूरयः ॥
को हि नाम विद्वानविदितविषये निष्प्रयोजने च कर्मणि प्रवर्तते ?
आह च भट्टः
११
सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् ।
यावत्प्रयोजनं नोक्तं तावत् तत्केन गृह्यते ॥ इति ।
5
15
20
25