________________
न्यायमञ्जयां
[प्रथमम्
मीमांसान्यायविस्तरयोः प्रस्थानभेदः
ननु वेदप्रामाण्यनिर्णयप्रयोजनश्चेन्यायविस्तरः कृतमनेन, मीमांसात एव तसिद्धेः। तत्र ह्यर्थविचारवत् प्रामाण्यविचारोऽपि कृत एव । सत्यम्, स त्वानु
षङ्गिकः । तत्र मुख्यस्त्वर्थविचार एव । पृथक्प्रस्थाना हीमा विद्याः । 5 प्रस्थानभेदवशान्मीमांसाया वेदप्रामाण्यरक्षणाक्षमत्वम्
सा च वाक्यार्थविद्या, न प्रमाणविद्येति ।
न च मीमांसकाः सम्यग् वेदप्रामाण्यरक्षणक्षमांसरणिमवलोकयितुं कुशलाः। कुतर्ककण्टकनिकरनिरुद्धसञ्चरमार्गाभासपरिभ्रान्ताः खलु त इति वक्ष्यामः । न हि
प्रमाणान्तरसंवाददाढय॑मन्तरेण प्रत्यक्षादीन्यपि प्रमाणभावं भजन्ते, किमुत 10 तदधीनवृत्तिरेष शब्दः । शब्दस्य हि समयोपकृतस्य बोधकत्वमाशम् । स्वाधीन
मर्थतथात्वेतरत्वपरिनिश्चये तु पुरुषमुखप्रेक्षित्वमस्यापरिहार्यम् । तस्मादाप्तोक्तत्वादेव शब्दः प्रमाणीभवति, नान्यथेत्येतच्चास्मिन्नेव शास्त्रे व्युत्पादयिष्यते । न्यायविस्तरादिविद्यानामादिसर्गतः प्रवृत्तिः
नन्वक्षपादात् पूर्व कुतो वेदप्रामाण्यनिश्चय आसीत् ? अत्यल्पमिदमुच्यते । 15 जैमिनेः पूर्व केन वेदार्थो व्याख्यातः ? पाणिनेः पूर्वं केन पदानि व्युत्पादितानि ? पिङ्गलात् पूर्व केन च्छन्दांसि रचितानि ? आदिसर्गात् प्रभृति वेदवदिमा विद्याः प्रवृत्ताः, संक्षेपविस्तरविवक्षया तु तांस्तांस्तत्र कर्तृनाचक्षते। शास्त्रारम्भहेतुः
___ ननु वेदप्रामाण्यं निर्विचारसिद्धमेव साधवो मन्यन्त इति किमत्र विचार20 यत्नेन ? न संशयविपर्यासनिरासार्थत्वात्। यस्य हि वेदप्रामाण्ये संशयाना
विपर्यस्ता वा मतिस्तं प्रति शास्त्रारम्भः। न हि विदितवेदार्थ प्रति मीमांसा प्रस्तूयते । तदुक्तम् “नान्यतो वेदविद्भ्यश्च सूत्रवृत्तिक्रियेष्यते” इति । उपदेष्टव्यनिर्णयः
भवति च चतुष्प्रकारः पुरुषः-अज्ञः, सन्दिग्धः, विपर्यस्तो, निश्चितमतिश्चेति । 25 तत्र निश्चितमतिरेष मुनिरमुना शास्त्रणाज्ञस्य ज्ञानमुपजनयति, संशयानस्य
संशयमुपहन्ति, विपर्यस्यतो विपर्यासं व्युदस्यतीति तान प्रति युक्तः शास्त्रारम्भः।