________________
न्यायमञ्जयां
[प्रथमम् तदेवं वेदपुराणधर्मशास्त्राणां स्वत एव पुरुषार्थसाधनोपदेशस्वभावत्वाद् विद्यास्थानत्वम् । वेदाङ्गानां विद्यास्थानत्वम्
___ अङ्गानि व्याकरणज्योतिःशिक्षाच्छन्दोनिरुक्तानि वेदार्थोपयोगिपदादिव्युत्पादनद्वारेण विद्यास्थानत्वं प्रतिपद्यन्ते । तेषामङ्गसमाख्यैव तदनुगामितां प्रकटयति । मीमांसायाः पृथग् विद्यात्वम्
विचारमन्तरेणाव्यवस्थितवेदवाक्यार्थानवधारणान्मीमांसा वेदवाक्यार्थविचारात्मिका वेदाकरस्येतिकर्तव्यतारूपमनुबिभ्रतीति विद्यास्थानतां प्रतिपद्यते। 10 तथा च भट्टः
धर्मे प्रमीयमाणे तु वेदेन करणात्मना।
इतिकर्तव्यतामागं मीमांसा पूरयिष्यति ॥ अत एव सप्तममङ्गमिति न गण्यते मीमांसा, प्रत्यासन्नत्वेन वेदैकदेशभूतत्वात् । विचारसहायो हि शब्दः स्वार्थं निराकाङ्क्ष प्रबोधयितुं क्षमः । 15 न्यायविस्तरस्य विद्यामूलत्वम्
न्यायविस्तरस्तु मूलस्तम्भभूतः सर्वविद्यानाम्, वेदप्रामाण्यहेतुत्वात् । वेदेषु हि ताकिकरचितकुतर्कविप्लावितप्रामाण्येषु शिथिलितास्थाः कथमिव बहुवित्तव्ययायासादिसाध्यं वेदार्थानुष्ठानमाद्रियेरन् साधवः ? किं वा तदानीं स्वामिनि
परिम्लाने तदनुयायिना मीमांसादिविद्यास्थानपरिजनेन कृत्यमिति ? तस्मादशेष20 दुष्टताकिकोपमर्दद्वारकदृढतरवेदप्रामाण्यप्रत्ययाधायिन्यायोपदेशक्षमम् अक्षपादो
पदिष्टमिदं न्यायविस्तराख्यं शास्त्रं प्रतिष्ठाननिबन्धनमिति परं विद्यास्थानम् । विद्यास्थानस्वरूप विचारः
विद्यास्थानत्वं नाम चतुर्दशानां शास्त्राणां पुरुषार्थसाधनज्ञानोपायत्वमेवोच्यते । वेदनं विद्या। तच्च न घटादिवेदनमपि तु पुरुषार्थसाधनवेदनम । विद्यायाः
25 वेदेन करणभूतेनानुष्ठेयत्वेन प्रतिपादित इति बुद्धया गृहीत्वा प्रतरिष्यति प्रतरणेनानुष्ठाने
x x x x x x (अग्रेतनग्रन्थस्त्रुटितः)