________________
आह्निकम् ]
प्रमाणप्रकरणम्
शास्त्रविभागः
तच्च चतुर्दशविधम्, यानि विद्वांसश्चतुर्दशविद्यास्थानान्याचक्षते । तत्र वेदाश्चत्वारः। प्रथमोऽथर्ववेदः, द्वितीय ऋग्वेदः, तृतीयो यजुर्वेदः, चतुर्थः सामवेदः। एते चत्वारो वेदाः साक्षादेव पुरुषार्थसाधनोपदेशस्वभावाः, 'अग्निहोत्रं जुहुयात् स्वर्गकामः', 'आत्मा ज्ञातव्यः' इत्यादिश्रुतेः। स्मृतिशास्त्रमपि मन्वायुपनिबद्ध- । मष्टकाशिखाकर्मप्रपाप्रवर्तनादिपुरुषार्थसाधनोपदेश्येव दृश्यते । अश्रूयमाणफलानामपि कर्मणां फलवत्ता विधिवृत्तपरीक्षायां वक्ष्यते, सर्वो हि शास्त्रार्थः पुरुषार्थपर्यवसायी, न स्वरूपनिष्ठ इति। इतिहासादीनां विद्यास्थानत्वविचारः
इतिहासपुराणाभ्यामपि उपाख्यानादिवर्णनेन वैदिक एवार्थः प्रायेण प्रतन्यते। 10 यथोक्तम्
इतिहासपुराणाभ्यां वेदं समुपद्व्हयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥ इति ।
सर्वो हि शास्त्रार्थ इति । सर्वः काम्यनित्यादिः शास्त्रार्थः पुरुषार्थे स्वर्गप्रत्यवायपरिहारादौ पर्यवस्यति । न स्वरूपनिष्ठः, यथा प्राभाकरा नित्यान् कर्तव्यत्वादेव 15 कर्तव्यानाहुः, न पुरुषार्थहेतुत्वेन, काम्यैरविशेषप्रसङ्गः स्यादिति वदन्तः। . इतिहासपुराणाभ्यामपीति । तयोहि वेदविहितमेव क्वचित् तत्प्रतिषिद्धम्, क्वचिद् विशिष्टपुरुषाचरणद्वारेण विशिष्टफलप्रदत्वेन प्रदर्शितम् 'इदं कर्मामुना समाचरितम्, सोऽप्येवंरूपेणानिष्टेन फलेन योगं प्राप' इति वैदिक एवार्थो विशिष्टपुरुषानुष्ठानतत्फलकीर्तनेन प्रतन्यते। यथा दशरथादेर्वेदोदितां पुत्रष्ट्यादिक्रियामनुष्ठितवतो राम- 20 भरतादिपुत्रजन्मप्रवर्तनम्; नहुषादेश्च ब्राह्मणावगूरणादिनिषिद्धाचरणेनाजगरत्वाप्त्याद्यनिष्टफलकीर्तनम् । तथा च लोके व्याधिता न तथा वैद्योपदिष्टौषधादिसेवने प्रवर्तते, यथा पार्श्वस्थोक्ताः ‘इदमौषधं सेव्यताम्, अस्मिन् हि सेविते ममान्यस्य चैष व्याधिराश्वेव विनष्ट इति ।
वेवं समुपबृंहयेत इति । वैदिकानि विधिवाक्यानि पौराणिकैरैतिहासिकैश्च 25 तत्फलपरैरुपाख्या विमिश्रयेदित्यर्थः। न च सम्यग् मदभिधेयानुष्ठेयसारूप्याद् मया