________________
न्यायमञ्जयां
[प्रथमम्
वयं मृदुपरिस्पन्दास्तदारोहणपङ्गवः । न तद्विभूतिप्राग्भारमालोकयितुमप्यलम् ॥१३॥ तदेकदेशलेशे तु कृतोऽयं विवृतिश्रमः । तमेव चानुगृह्णन्तु सन्तः प्रणयवत्सलाः ॥१४॥ असङ्खचैरपि नात्मीयैरल्पैरपि परस्थितैः। गुणः सन्तः प्रहृष्यन्ति चित्रमेषां विचेष्टितम् ॥१५॥ परमार्थभावनाक्रमसमुन्मिषत्पुलकलाञ्छितकपोलम् ।
स्वकृतीः प्रकाशयन्तः पश्यन्ति सतां मुखं धन्याः ॥१६॥ शास्त्रमेव स्वर्गापवर्गप्रतिपादकम्
इह प्रेक्षापूर्वकारिणः पुरुषार्थसम्पदमभिवाञ्छन्तस्तत्साधनाधिगमोपायमन्तरेण तदवाप्तिममन्यमानास्तदुपायावगमनिमित्तमेव प्रथममन्वेषन्ते । दृष्टादृष्टभेदेन च तद्विविधः पुरुषार्थस्य पन्थाः। तस्य दृष्टे विषये रुचिः प्ररूढवद्धव्यवहारसिद्धान्वयव्यतिरेकाधिगतसाधनभावे भोजनादावनपेक्षितशास्त्रस्यैव भवति
प्रवृत्तिः 'न हि मलिनः स्नायात', 'बुभुक्षितो वाऽश्नीयात्' इति शास्त्रमुपयुज्यते । 15 अदृष्टे तु स्वर्गापवर्गमात्रे नैसर्गिकमोहान्धतमसविलुप्तालोकस्य लोकस्य शास्त्रमेव
प्रकाशः । तदेव सकलसदुपायदर्शने दिव्यं चक्षुरस्मदादेन योगिनामिव योगसमाधिजज्ञानाद्युपायान्तरमपीति । तस्मादस्मदादेः शास्त्रमेवाधिगन्तव्यम् ।
योगसमाधिजेति। योगो द्विविधः--सम्प्रज्ञातोऽसम्प्रज्ञातश्च । योग एव क्रमेण समाध्यवस्थामसम्प्रज्ञातत्वलक्षणां सम्प्राप्तो योगसमाधिः। केवलयोगग्रहणे क्रियमाणे सम्प्रज्ञातेऽपि स प्रत्ययः स्यादिति समाधिग्रहणम् । समाधिशब्दे तु योगशब्दं विनोक्ते यमनियमादियोगाङ्गाष्टकमध्यवर्तिनि योगाङ्गे समाधौ प्रसङ्गो न निवर्तत इत्युभयग्रहणेनाभीष्टार्थप्रतिपादनान् नास्ति पौनरुक्त्यम् । योगसमाधिशब्दयोहि पर्यायतया पौनरुक्त्यमाशङ्कते, तदेव नास्ति । यदा आत्मादेर्यथाभूतेन स्वरूपेण सम्यक् प्रकर्षेण ज्ञानम्, तदा सम्प्रज्ञातो योगः सबीजः समाधिर्भण्यते। यदा तु विपर्ययोऽभ्यासक्रमेण स्वरूपेणाप्यात्मनः सम्प्रज्ञाताभावः, तदाऽसम्प्रज्ञातो योगो निर्बीजः समाधिः। योगाङ्गस्य पुनः समाधेर्लक्षणम् “तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" इति। तच्छब्देनात्र सूत्रे "तत्र प्रत्ययैकतानता ध्यानम्" इति प्रासूत्रनिर्दिष्टं ध्यानं परामृष्टम् ।