________________
आह्निकम् ]
प्रमाण प्रकरणम्
न्यायौषधिवनेभ्योऽयमाहृतः परमो रसः । इदमान्वीक्षिकीक्षीरान्नवनीतमिवोद्धृतम् ॥ ७ ॥ कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः । वचोविन्यासवैचित्र्यमात्रमत्र विचार्यताम् ॥ ८ ॥ तैरेव कुसुमैः पूर्वमसकृत्कृतशेखराः । अपूर्व रचने दाम्नि दधत्येव कुतूहलम् ॥ ९ ॥ यद्वा निर्गुणमप्यर्थमभिनन्दन्ति साधवः । प्रणयिप्रार्थनाभङ्गसंविधानामशिक्षिताः ॥१०॥ तदियं वाङ्मयोद्यानलीलाविहरणोद्यतैः । विदग्धैः क्रियतां कर्णे चिराय न्यायमञ्जरी ॥११॥ अक्षपादप्रणीतो हि विततो न्यायपादपः । सान्द्रामृतरसस्यन्दफलसन्दर्भनिर्भरः ॥१२॥
तथा चाह भगवान् व्यासः -
5
10
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं प्रवर्ते चाथ कर्मणि ॥
फलस्य च प्रवर्तकत्वमग्रे प्रतिपादयिष्यते । यदि वा सङ्कल्पेन सम्पद्यतामिदम् इत्येवंरूपेण सत्यसङ्कल्पत्वाद् भगवतः सफलो निष्पत्तिलक्षणेन फलेन फलवान् ब्रह्मस्तम्बारम्भो यस्य । फलान्तराभिसन्धिनापि हि प्रवर्तमानानां कर्मस्वारम्भसमये समारभ्य निष्पत्तेरेवेष्यमाणत्वात् फलत्वं दृष्टम्, इष्टलक्षणत्वात् फलस्य । तथा हि कीर्त्यादिफलकामा ग्रन्थादि चिकीर्षन्तो ग्रन्थनिष्पत्तिरूपावान्तरफलनिष्पत्तये नमस्कारादि कुर्वन्तो दृश्यन्ते । स्तम्बः स्थावरस्तृणगुल्मादिकः, तत्पर्यन्तं हि प्राणिनः कर्मवशात् संसरन्ति । तथा च स्थावरानधिकृत्याह मनुः
20
एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः ।
घोरेऽस्मिन् भूतसंसारे नित्यं सततयायिनि ॥ इति ।
यद्यपि चास्मिन् दर्शने स्थावराणामचैतन्यम्, तथापि चेतनावत् सहचरितत्वात् सृष्टौ चेतनावदुपचारस्तेषाम्, 'दण्डिनो गच्छन्ति' इतिवत् । यथा दण्डरहिता अपि दण्डसाहचर्याद् दण्डिन इत्युपचर्यन्त इति ।
संविधानामशिक्षिता इति । ण्यन्ताच्छिक्षतेः स्वकर्मणि क्तः ।
15
25