________________
[प्रथमम्
• न्यायमञ्जसुरासुरशिरोरत्नमरीचिखचिताङ्ग्रये । विघ्नान्धकारसूर्याय गणाधिपतये नमः ॥३॥ जयन्ति पुरजिद्दत्तसाधुवादपवित्रिताः। निदानं न्यायरत्नानामक्षपादमुनेगिरः॥४॥ अक्षपादमताम्भोधिपरिमर्षरसोत्सुकाम् । विगाहन्तामिमां सन्तः प्रसरन्तीं सरस्वतीम् ॥५॥ नानागुणरसास्वादखिन्नाऽपि विदुषां मतिः। आलोकमात्रकेणेममनुगृह्णातु नः श्रमम् ॥६॥
शाश्वतिकानन्दज्ञानेश्वर्याणि, तानि प्रकृतानि प्राचुर्येण प्रस्तुतानि यस्य स शाश्वतिका10 नन्दज्ञानेश्वर्यमयः, तादृगात्मा यस्य । प्राचुर्यं द्विविधम्-सततावियोगो बाहुल्यञ्च । तदत्र
सततावियोगापेक्षया मयट् । नित्यत्वं चैषामीश्वरसिद्धौ' वक्ष्यति । ब्रह्मण आरभ्य स्तम्बपर्यन्तश्चतुर्दशविधो भूतग्रामो ब्रह्मस्तम्बः। सङ्कल्पेन सफलः । सह फलेन स्वसंवेदनलक्षणेन वर्तत इति सफलः। सफलो यो ब्रह्मस्तम्बस्तस्य य आरम्भस्तन्निष्पत्त्यर्थश्चेष्टाविशेषः । स सफलब्रह्मस्तम्बारम्भः। सङ्कल्प एवेच्छाविशेष एव सफलब्रह्मस्तम्बारम्भो यस्य । न पुनरिच्छाजनितप्रयत्नपूर्वकोऽस्मदादीनामिव कार्यविशेषारम्भो भगवत इति स्तुतिर्गुणातिशयाभिधानरूपा। विचित्रसुखदुःखसंवेदनस्य यद्यपि कर्मकृतत्वं प्राणिनाम्, तथापीश्वरेच्छानिरपेक्षाणां तेषां न तत्र सामर्थ्यमिति वक्ष्यति । तथा चागमोऽपि"अज्ञो जन्तुरनीशोऽयम्" इति ।
आरभ्यते वा येनारम्भः प्रयत्नः, सफलब्रह्मस्तम्बविषयारम्भः प्रयत्नः सङ्कल्प एव 20 यस्येति । न तु सङ्कल्पादन्यः प्रयत्नस्तस्यास्ति, यद् वक्ष्यति ईश्वरसिद्धौ ‘प्रयत्नश्चास्य
सङ्कल्पविशेष एव' इति । यत् प्रयत्नेन सिद्धयति, तस्य सत्यसङ्कल्पत्वाद् भगवतः सङ्कल्पेनैव सिद्धिरिति ततोऽन्यस्य प्रयत्नस्य कल्पना निष्प्रमाणिकेति वक्ष्यमाणस्य तात्पर्यम्।
अन्ये व्याचक्षते सङ्कल्पलक्षणेन फलेन सफल: सप्रयोजनो ब्रह्मस्तम्बारम्भो यस्य । स्वभावप्रवृत्तं सङ्कल्पमात्रमेव फलं प्रयोजनं प्रवर्तकं जगत्सर्गे भगवतः, पूर्णकामत्वेनान्यस्यापेक्षणीयस्याभावात् ।
25