SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः ॥ न्यायमञ्जरी प्रमाणप्रकरणम् [प्रथमाह्निकम् ] नमः शाश्वतिकानन्दज्ञानेश्वर्यमयात्मने। सङ्कल्पसफलब्रह्मस्तम्बारम्भाय शम्भवे ॥१॥ नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् । भवानी भवसन्तापनिर्वापणसुधानदीम् ॥२॥ न्यायमञ्जरीग्रन्थिमङ्गः नमोऽनवसितासक्तचिक्रियाशक्तिसम्पदे । विष्णवे त्रिजगद्व्यापिपरमाश्चर्यमूर्तये ॥ १॥ सङ्कल्पितफलावाप्तिकल्पपादपमञ्जरीम् । स्वान्तस्तापतमःशान्त्यै मातृकां नौमि चण्डिकाम् ॥२॥ मधुरासु प्रसन्नासु ग्रन्थयोऽतिरसास्वपि । जयन्तोक्तिषु दृश्यन्ते क्वचिदिक्षुलतास्विव ॥ ३ ॥ सुकुमाराशयाः केचित् सन्ति तद्भङ्गविक्लवाः। अतस्तेभ्यो व्यधत्तमं भङ्गं श्रीशङ्करात्मजः ॥४॥ प्राप्य चक्रधरश्चक्रमिव सर्वविदः श्रुतम्। शशाङ्कधरतोऽभेद्यग्रन्थिभेदाहितोद्यमः ॥ ५॥ 15 नमः शाश्वतिकानन्देति । आनन्दः सुखम् । ज्ञानम् अखिलार्थदृक् संवित् । . ऐश्वर्यम् अणिमाद्यष्टगुणयोगः। शाश्वतिकानि नित्यानि च तान्यानन्दज्ञानेश्वर्याणि
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy