________________
३७४
5
10
20
न्यायमञ्जय
25
[ चतुर्थम्
1
तदवच्छेदेन वा कृत्यम् ? यद्येवम्, अष्टकादिकर्मणां धर्मत्वाग्राहित्वादसर्वज्ञ ईश्वरः स्यात् ? ज्ञात्वा वानुपदिशनकारुणिको भवेत् ? नैष दोषः, सर्वं जानात्येव भगवान् किञ्चित् स्वयमुपदिशति किञ्चित् परानुपदेशयति । ते हि तस्यानुग्राह्या भगवतः । तेषाञ्च तदनुग्रहकृतंव तथाविधज्ञानप्राप्तिः । मन्वादीनां प्रत्यक्षो धर्म इति वेदेऽपि पठ्यते । साक्षात्कृतधर्माण ऋषयो बभ्रुवुस्ते परेभ्योऽसाक्षात्कृतधर्मभ उपदेशेन मन्त्रान् संप्रादुरिति वेदेऽपि पठ्यते ।
नन्वेवं प्रत्यक्षमूलत्वाविशेषाच्छ्र तिस्मृत्योर्विरोधे विकल्पः प्राप्नोति बृहद्रथन्तरविध्योरिव न बाध्यबाधकभावः । न हीश्वरप्रत्यक्षस्य योगिप्रत्यक्षस्य च प्रामाण्ये कश्चिद्विशेषः । नैसर्गिकाहार्यत्वकृतस्तु भविष्यति ? कि तेन ? उच्यते । भवतु विकल्पः, को दोष: ? वेदमूलत्ववादिभिरपि कश्चिद्विकल्पो व्याख्यात एव । विषय
बृहद्रथन्तरविध्योरिव 'वृहत्पृष्ठं भवति' रथन्तरं पृष्ठं भवति' इत्यनयोः । वेद15 मूलत्ववादिभिरपि कैश्चिद्विकल्पो व्याख्यात एवेति । अयं तेषामाशयः किल भवद्भिः प्रत्क्षया श्रुत्यानुमानिकी श्रुतिर्बाध्यत इत्यभिधीयते । तत्र ब्रूमः सा श्रुतिर्मन्वादीनां प्रत्यक्षा अप्रत्यक्षा वा ? न तावदप्रत्यक्षा, मन्वादीनामातत्वहानेः एवञ्चातिविरोधेऽप्रामाण्यप्रसक्ति: । अथ प्रत्यक्षा, तदानीमिदानीन्तन प्रत्यक्षत्वं ववोपयुज्यते तेषां; प्रत्यक्षत्वेन तस्याः प्रामाण्यसिद्धेः प्रामाण्यञ्च बृहद्रथन्तरश्रुत्योरिव विरोधे विकल्पः वार्य इत्यादि । विषयविभागेन वा विकल्पो व्याख्यास्यत इति यथा
उपदेशेन मन्त्रान् संप्रादुः । उपदेशेन शिष्योपाध्यायिकया अपरेभ्यः अवरकालीनेभ्यः शक्तिहीनेभ्यः मन्त्रान् ग्रन्थतोऽर्थतश्च संप्रादुः संप्रत्तवन्तः । अर्थतश्च मन्त्राणां ज्ञानाद् धर्मोऽपि ज्ञातो भवति, कर्मणां विशिष्टफलप्रदत्वस्य मन्त्रैः प्रकाशनादिति ।
प्राजापत्यान्तु कृत्वेष्टिं सर्ववेदसदक्षिणाम् ।
आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ॥
इति सप्तमाद्ये प्राभाकरटीका तात्पर्यम् ।
[ ननु यथाकार्यमुपदेश इति अयमापतत् सत्रमित्यनेन सह विरोधे विषय - विभागो दर्शितः । यः परिपक्वकषायः विगता रूपाच्चोदकात् प्राप्तिः सा हि
१. एतच्चिह्नान्तर्गतं सर्वमस्पष्टार्थकम् ।