________________
आह्निकम् ।
प्रमाणप्रकरणम्
३७३
विरोधिनी प्रत्यक्षश्रुता श्रुतिरवतरति हृदयपथमिति कथं तदा मूलकल्पनाये स्मृतिः प्रभवेत् ? तदाह
___ सोऽयमाभाणको लोके यदश्वेन हृतं पुरा।
तत्पश्चाद् गर्दभः प्राप्तुं केनोपायेन शक्नुयादिति ॥ अपर आह, विकल्प एवात्र युक्तः । किल द्विविधो वेदः श्रूयमाणोऽनुमीय- 5 मानश्च । श्रूयमाणश्च श्रुतिरित्युच्यते, अनुमीयमानश्च स्मृतिरिति । द्वावपि चैतावनादी इति किं केन बाध्यते ? व्यक्ताव्यक्तो हि वेद एवासौ । अत एव न मन्त्रार्थवादादिमूलकत्वकल्पनं युक्तम्, स्मर्यमाणस्य वेदस्यानादित्वात् ।
___नन्वेवं वेदमूलत्वेन प्रामाण्ये वर्ण्यमाने बाह्यस्मृतीनामपि प्रामाण्यं वदन्तः प्रावादुकाः कथं प्रतिवक्तव्याः ? उच्यते । प्रत्युक्ता एव ते तपस्विनः । उक्तं हि 10 भगवता जमिनिना अपि वा कर्तृसामान्यात प्रमाणमनुमानं स्यादिति' । कर्तृ सामान्यादिति कोऽर्थः ? एकाधिकारावगमादिति । य एव वेदार्थानुष्ठानेऽधिकृताः कर्तारस्त एव स्मृत्यर्थानुष्ठाने, आचमनादिस्मार्तपदार्थसंवलितवेदिस्तरणादिवैदिकपदार्थप्रयोगदर्शनात् । न त्वेवमधिकारावगमो बाह्यस्मृतिषु विद्यते। तस्मान्मन्वादिस्मृतय एव प्रमाणं न बाह्यस्मृतयः ।
15 ननु मन्वादिस्मृतयोऽपि वेदमूलत्वात् प्रमाणं नान्यत इति । अत्रोच्यते, तदेतद् वेदमूलतया प्रामाण्यम, योगिप्रत्यक्षं धर्मग्राहकममृष्यमाणाः किलाचक्षते भवन्तः, एतञ्च न युक्तम् । यथाहि भगवानीश्वरः सर्वस्य कर्ता सर्वस्येशिता सर्व. दर्शी सर्वानुकम्पी च वेदानां प्रणेता समर्थितस्तथा योगिप्रत्यक्षमपि धर्मग्रहणे निपुणमस्मदादिप्रत्यक्षविलक्षणं प्रत्यक्षलक्षणे समथितमेव । तस्मात् तन्मूला एव । मन्वादिदेशना भवन्तु ।
यत्तु त्रिकालानवच्छिन्नः कथं प्रत्यक्षगम्यो धर्मः स्यादिति चोदनैव तत्र प्रमाणमुच्यते, प्रतिविहितं तत् । ईश्वरप्रत्यक्षं यथाग्निहोत्रादेर्धर्मत्वस्य ग्राहकमेवमष्टकादियागे तस्य ग्राहक मन्त्रादिप्रत्यक्षं भविष्यतीति किमत्र त्रिकालानवच्छेदेन
आचमनादिस्मार्तपदार्थेति । 'आचान्तेन कर्तव्यम्' 'शुचिना कर्तव्यम्' इति 25 स्मार्तपदार्थमिश्राणां वेदिस्तरणादीनां दर्शनात् ।