________________
३७२ न्यायमञ्जयां
[चतुर्थम् युरिति युक्ता कल्पना, बाधकाभावात् साधुजनपरिग्रहाच्चेत्युक्तम् । तस्मात् पारिशेष्याद् वेदाख्यकारणमूला एव भवितुमर्हन्ति मन्वादिदेशनाः। तद्धयनुगुणं समर्थञ्च कारणमिति । तदाह भट्टः
भ्रान्तेरनुभवाद् वापि पुंवाक्याद् विप्रलम्भकात् ।
दृष्टानुगुण्यसामर्थ्याच्चोदनव लघीयसीति ॥ तत्र केचित् परिदृश्यमानमन्त्रार्थवादवलोन्नीतविधिमूलत्वं मन्यन्ते । अन्ये विप्रकीर्णशाखामूलत्वम् ।
- अपरे पुनरुत्सन्नशाखामूलत्वमिति । अनेन च विशेषविवरणेन न नः प्रयोजनम् । सर्वथा यथोपपत्ति वेद एव तत्र मूलं प्रकल्प्यतां न मूलान्तरम, अप्रमाण10 कत्वात्, वेदमूलत्वपक्षेऽपि चेयमखिलजगद्विदिता स्मृतिसमाख्यानुगृहीता भविष्यति।
प्रत्यक्षमूलत्वे हि वेदवदत्रापि कः स्मृतिशब्दार्थः ? किञ्च वेदमूलत्वे सति स्मृतेः श्रुतिविरोधे सति तदतुल्यकक्षत्वाद् बाध्यत्वं सुवचं भवति । क्लृप्तमेकत्रमूलमितरत्र कल्प्यम् । यावदेव भवान् स्मृतेः श्रुति कल्पयितुं व्यवस्यति तावदेतद्
भ्रान्तेरनुभवाद्वेति । एभ्यः सकाशान्मूलत्वेनाश्रीयमाणा चोदनैव लघीयसी 15 कल्पनारहिता। दृष्टानुगुण्यसामर्थ्यादित्यत्र दृष्टानुगुण्यसाध्यत्वादिति पाठान्तर
मन्ये वदन्ति, व्याचक्षते च दृष्टानुगुणं साध्यं यस्याः सा दृष्टानुगुण्यसाध्या तद्भावस्तत्त्वम् । यदेतद् दृष्टं वेदविदनुष्ठानं तदानुगुण्यं चोदनामूलत्वे सति साध्यं भवति सिद्धयतीत्यर्थः।
परिदृश्यमानमन्त्रार्थेति । 'यां जना अभिनन्दन्ति" इति मन्त्रार्थवादात् __ "अष्टकाः कर्तव्याः" इति स्मृतेः; 'धन्वन्निव प्रपा असि त्वमग्ने'' इत्यतः “प्रपाः प्रवर्तयितव्याः” इत्यस्याः स्मृतेरुत्थानम्। विप्रकीर्णशाखामूलत्वमिति । विप्रकीर्णा याः काश्चित् क्वचिदेव देशे पठ्यन्ते न सर्वाः सर्वत्र अतस्तदर्थस्यैकत्र ढौकयितुमशक्यत्वात् स्मृत्युपनिबन्धस्तदर्थसंकलनानिमित्तकः ।
उत्सन्नशाखेति । याः शाखा अन्यैः कैश्चिन्न पठ्यन्ते ता एव तु स्मृतिकाराः 25 पठन्ति, तैरन्याख्यात्रभावनोत्सादमाशङ्कमानस्तदथं ग्रन्थोपनिबन्धः कृतः ।