________________
प्रमाणप्रकरणम्
३७१
आह्निकम् ] तन्त्रागमादीनामपि प्रामाण्ये एषैव रीतिः
आह
किमेतदित्थं प्रामाण्यं वेदानामेव साध्यते । तन्त्रागमान्तराणां वा सर्वेषामियमेव दिक् ॥
किश्चातः
आद्य पक्षे परेष्वेवं ब्रु वाणेषु किमुत्तरम् ।
उत्तरत्र तु मिथ्याः स्युः सर्वेऽन्योन्यविरोधिनः॥ कानि पुनरागमान्तराणि चेतसि निधायैवं वत्सः पृच्छति ? पुराणेतिहासधर्मशास्त्राणि वा, शैवपाशुपतपञ्चरात्रबौद्धार्हतप्रमृतीनि वा। तत्र शैवादीनि 10 तावन्निरूपयिष्याम । मन्वादिप्रणीतानि धर्मशास्त्राणि वेदवत्तदर्थानुप्रविष्टविशिष्टकर्मोपदेशीनि प्रमाणमेव। कस्तेषु विचारः ? तेषान्तु प्रमाणत्वं वेदमूलत्वेनैव केचिदाचक्षते। तथा हि न तावन्मन्वादिदेशना भ्रान्तिमूलाः सम्भाव्यन्ते, बाधकामावात्, अद्ययावदपरिम्लानादरैर्वेदविद्भिस्तदर्थानुष्ठानात् । नाप्यनुभवमूलाः प्रत्यक्षस्य त्रिकालानवच्छिन्नकार्यरूपधर्मपरिच्छेददशासामर्थ्यासम्भवात्। न च पुरुषान्तरोपदेशमूलाः पुरुषान्तरस्यापि तदवगमे प्रमाणाभावात् । भावे वा मनुना किम- 15 पराद्धम् ? असति हि मूलप्रमाणे पुरुषवचनपरम्परायामेव कल्प्यमानायामन्धपरम्परास्मरणतुल्यत्वं दुनिर्वारम् । न च विप्रलम्भका अत्रभवन्तो मन्वादय एवमुपदिशेतथाहि कस्यचिद् वृक्षस्य मूलादयो भिन्नकार्यकर्तृत्वेनोपलभ्यन्ते ते च परस्परसम्बद्धा एव भवन्ति । शाखापक्षे कुसुमफले, वाक्यवाक्यायौं वेश्पक्षे। वेदपक्षे द्विजैर्ब्राह्मणैः पीत आस्वादित उत्तमो रस उपनिषदों यासाम्, वृक्षपक्षे द्विजैः पक्षिभिः ।
परेष्वेवं ब्रुवाणेषु। यथा भवद्भिर्वेदानां प्रामाण्यं साध्यत ईश्वरप्रणीतत्वेन तन्त्रागमान्तराणामपि तथैव प्रतिपादयत्सु।
तदर्थानुप्रविष्टेति । वेदार्थेऽनुष्ठेयेऽनुप्रविष्टानि 'आचान्तेन कर्तव्यम्' 'शुचिना कर्तव्यम्' इत्यादीनि यानि शौचाचमनादीनि कर्माणि । अन्धपरम्परास्मरणतुल्यत्वमिति यथान्धः रूपविशेषोपलम्भं प्रति पृष्टोऽन्धान्तरोक्तं स्मृत्वा कथयति 'तेन समैवमाख्यातम्' इति ।
20