________________
३७०
न्यायमञ्जा
[ चतुर्थम् एवं तत्र पठ्यते 'द्वे यज्ञवृत्ती भवतो वहारिकी च पाकयज्ञवृत्तिश्चेति । तत्र वहारिकी नामानेकत्विगाश्रितानामेकक्रियाणामुपदेशः श्रुतौ, एकब्रह्मत्विगाश्रितास्तु शान्त्यादिक्रियाः स्मृतौ इत्यभूमिज्ञोक्तिरेषा । त्रग्र्येवात्मीयगोचरा इति एतदपि
परममाध्यस्थ्यम् । न ह्यात्मीयः परकीयो वा कश्चिदस्ति वेदार्थः, सर्वशाखा5 प्रत्ययत्वादेकस्य कर्मणः। वेदचतुष्टयेषु मध्ये कस्याप्येकस्य ततः पृथक् करणं न शिष्टसम्मतम्
तस्मात् समानयोगक्षेमत्वात् सर्ववेदानामेकस्य ततः पृथक् करणं वेदनिन्दाप्रायश्चित्तनिर्भयधियामेव चेतसि परिस्फुरति न साधूनामित्युपरम्यते ।
इति तुल्यप्रभावद्धिवर्धमानोचितस्तवाः। विविधाभिमतस्फीतफलसम्पादनोद्यताः॥ चत्वारोऽपि पराक्षेपपरिहारस्थिरस्थितिम् । भजन्ति वेदाः प्रामाण्यलक्ष्मी हरिभुजा इव ॥ चतुःस्कन्धोपेतः प्रथितपृथगर्थे रवयवः कृतान्योन्यश्लेषरुपचितवपुर्वेदविटपः । प्रतिस्कन्धं शाखाफलकुसुमसन्दर्भसुभगाः प्रकाशन्ते तस्य द्विजमुखनिपीतोत्तम रसाः॥
इत्यभिधाय ज्येष्ठसामगादयोऽनुकल्परूपतया दर्शिताः। वहारिकीति । विहार आहवनीयादिरग्निस्त्रेता तत्र भवा नैहारिकी दर्शपूर्णमासादिका। पाकयज्ञ अष्टकादयो
गृह्याग्निनिर्गाः । वृत्ती प्रकारौ । इत्यभूमिज्ञोक्तिरेषा। उभयासामपि तत्रैवोपदेश20 दर्शनादिति।
तुल्यप्रभावर्तीति । तुल्यप्रभावद्धि माहात्म्यसम्पत्त्या प्रत्यहं वर्धमानः अधिकीभवन् उचितो योग्यः स्तवो येषां भुजानां वेदानाञ्च । भुजपक्षे भगवद्भुजानां कर्मणि सव्येतराणां विशेषाभावात् तुल्यप्रभावद्धित्वम् । भुजपक्षे विबुधा देवा वेदपक्षे विद्वांसस्तेषामुपायप्रदर्शनद्वारेण फलसम्पादकत्वम । चतुःस्कन्धोपेत इति । बेदपक्षेऽवयनैविध्य
र्थवादमन्त्रनामधेयादिवाच्यैः पृथगर्थैः प्रवर्तनास्तुतिप्रयोगप्रदर्शनादिप्रतिपादकैरत एव 25 परस्परसम्बद्धैः । क्षपक्षेऽवयवैमूलत्वक्पत्रादिभिः, तेऽपि पृथगर्थाः पृथक्प्रयोजनाः ।