________________
प्रमाणप्रकरणम्
आह्निकम् ]
३६९ वेदाध्यायिनामनधिकारमेव श्राद्धे सूचयति । अथर्वणस्तु अथर्वशिरोऽध्ययनमात्रलब्धपतितपावनभावस्यैकदेशपाठिनोऽपि तत्राधिकार उपपद्यते। दर्शितञ्चाथर्वशिरोऽध्ययनमात्रादपि पङ्क्तिपावनत्वम्, पतितपावनश्च श्राद्धभोजनेऽनधिकृत इति विप्रतिषिद्धम् ।
___ यत्तु ज्येष्ठसामगः, त्रिमधुः, त्रिसुपणिक इति वेदान्तरकदेशाध्यायिनामपि 5 श्राद्धभोजनाभ्यनुज्ञानं तदनुकल्पमिव भाति, प्रथम कल्पेन समग्रवेदाध्ययनोपदेशादिति, तस्मानायर्वनिषेधार्थमेतद्वाक्यमिति । तदेवमवस्थिते यद् वातिककारेण भयादिव द्वषादिव मोहादिव सानुकम्पमिव वेदमुच्यते 'यदि यज्ञोपयोगित्वमित्यादि तदहृदयङ्गमम्, अथर्ववेदे पूर्वोत्तरब्राह्मणे विस्पष्टमिष्टिपश्वकाहाहीनसत्राणामुपदेशात्, वेदान्तरेषु तच्चोदनाभावात्। किमथर्ववेदे तदुपदेशेनेति चेत्, सुभाषित- 10 मिदम्। एवमपि हि वक्तुं शक्यम्, अथर्ववेदे तच्चोदनाया दर्शनात् किं तदुपदेशेनेति ? न च जाने कस्यैष पर्यनुयोगः किं नित्यस्य वेदस्य किं वा तत्प्रणेतुरीश्वरस्येति द्वावपि हि तावपर्यनुयोज्यावित्युक्तम् । अर्थान्तरशान्तिपुष्टयभिचारादि वेदान्तरेष्वपि न न दृश्यते, श्येनो हि सामवेद उत्पन्न अद्भुतशान्त्यादयश्च यजुर्वेद इति तदपि समानम् । एकब्रह्मत्विगाश्रिता इत्येतदपि न सत्यम्, यत 15
दर्शितञ्चाथर्वशिरोऽध्ययनेति । यदुक्तम्
विनाचिकेतो विरजाश्छन्दोगो ज्येष्ठसामगः ।
अथर्वशिरसोऽध्येता चत्वारः पङ्क्तिपावनाः ॥ इति ॥ यत्तु ज्येष्ठसामग इति तदुक्तम्
अग्रयाः सर्वेषु गेदेषु श्रोत्रियो ब्रह्मवित्तमः।
वेदार्थविज्ज्येष्ठसामा त्रिमधुरित्रसुपर्णकः ॥ इति ।। ज्येष्ठसाम-त्रिमधु-त्रिसुपर्णानि व्रतानि तदनुष्ठायिनस्तच्छब्दैरुक्ताः। तदनुकल्पमिति ।
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः। अनुकल्पस्त्वयं यज्ञे सदा सद्भिरनुष्ठितः ॥
25