SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३६८ न्यायमञ्जऱ्या [ चतुर्थम् श्रयणीयम्' अथर्ववेदविहित स्वकर्मभ्रषे प्रायश्चित्तमाचरद्धिरित्यथर्ववेद एव ज्यायान् । ___ यत्तु मानवं वाक्यमुदाहृतं 'षत्रिंशदाब्दिक' तत् त्रिवेदाध्ययनविषयम् । वैकल्पिकं 'वेदानधीत्य वेदौ वा वेदं वापि यथाक्रममिति । एकस्मिन् वेदे द्वादश5 वर्षाणि व्रतम्, द्वयोश्चतुर्विशतिः, त्रयाणां षट्त्रिंशदिति । यस्तु चतुरो वेदानधीते तस्याष्टचत्वारिंशद्वर्ष वेदब्रह्मचर्यमुपासीतेति स्मृत्यन्तरमस्ति, न च तदा दृतम् । तत्र त्रिवेदाध्यायिनामेव प्रतिवेदं षोडशवर्षाणि व्रतं चरेदिति व्याख्यानमसङ्गतम, उपक्रमविरोधाद् अनुपयोगाच्च । तेन वेदान्तराध्ययनकृत एवायं विकल्पविधिर्न द्वादशषोडशवर्षापेक्ष इति । अनादरोऽप्यस्यां स्मृतौ 'कृष्णकेशो अग्नीनादधोते'ति श्रुतिविरोधकृतो नाथर्ववेदाध्ययननिषेधगर्भ इति । त्रैवेदिकव्रतब्रह्मचर्यस्मृतिरपि चेयम् अथर्ववेदाध्ययनपर्युदासमेव विषयीकरोति न च वेदान्तराध्ययननिषेधमिति अत्रापि न विशेषहेतुरस्ति । त्रिषु वेदेष्विदं व्रतं न पुनरेष्वेव त्रिष्विति नियामक वचनमस्ति । यदपिश्राद्धप्रकरणे यत्नेन भोजयेदिति त्रिवेदपारगपरिकीर्तनं तद् वेदपारगमिति शाखान्तगमिति समाप्तिगमिति विशेषणपदपर्यालोचनया ऋग्वेदाद्यक तपः महः सत्यमित्यासाम् । स्वकर्मभ्रषे प्रायश्चित्तमिति । तथाहि 'यदि ऋक्त आत्तिमाछंद भूरित्येव जुहुयात्; यदि यजुष्टः भुव इत्येव; यदि सामतः स्वर् इत्येवेत्यथर्वविहितं प्रायश्चित्तम्। न च तदायैर्नादृतमित्यनेन मीमांसकैर्यदस्याप्रामाण्यमापादितं तदाशङ्कते । उपक्रमविरोधात् । सामान्येन वेदब्रह्मचर्यमिति सर्ववेदविषयत्वेनोपक्रमात् । तेन वेदान्तराध्ययनकृत इति । योऽयं षट्त्रिंशदाब्दिकम्' इत्यस्य 'अष्टाचत्वारिंशतं वर्षाणि' इत्यनेन विकल्पः स वेदत्रयकृते द्वारशकत्रये सति चतुर्थे द्वादशकेऽयर्वणे दापेक्षया निर्दिष्टे तावत्सङ्ख्यासद्भावादिति स्थितः, न पुनः प्रतिवेद द्वादश षोडश वा वर्षाणीत्येवम् । अनादरोऽप्यस्यामिति । अष्टचत्वारिंशतं वर्षाणि ब्रह्मचर्ये कृते दारसङ्ग्रहापत्योत्पादना. 25 दावन्यो बहुकालो यात्यतः कथं कृष्णकेशतेति विरोधः । अथर्ववेदाध्ययनपर्युदासमेवेति । अथर्वागोदाध्ययनपर्युदासमथर्ववेदादन्येषु गेदेष्टोवं व्रत चरणीयम्, न पुनरथर्ववेदः सर्गथैव नाध्येतव्य इति तात्पर्यम् ।
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy