SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् ३६७ आह्निकम् ] आसीदि'त्युपक्रम्य 'आथर्वणं वेदमभ्यश्राम्यदभ्यतपत् समतपत् तस्मात् तथा श्रान्तात् सन्तप्तादोमिति मन एवोर्वमक्षरमुदकामदि'त्यादि।तथा महाव्याहृतीनांशाखान्तरप्रसिद्धानामप्रसिद्धानाञ्च बृहदित्यादीनां तत एवोत्थानम् । अथर्ववेदकृतोपनयनसंस्कारस्य वेदान्तराध्ययनमविरुद्धम् । अन्यवेदोपनीयमानस्य तु नाथर्वणोपनयनसंस्कारमप्रापितस्याथर्ववेदाध्ययनेऽधिकारः । तदुक्तम्, 'भृग्वङ्गिरोविदा संस्कृतोऽन्यान् 5 वेदानधीयीत नान्यत्र संस्कृतो भृग्वङ्गिरसोऽधीयोते'ति।त्रय्येकशरणैरपि चैतदवश्या श्यत्, तां चेक्षमाणस्य स्वं रेतोऽस्कन्दत् तद"सु प्रत्यतिष्ठत्” इति प्रक्रम्य 'ताभ्यः श्रान्ताभ्यः तप्ताभ्यः संतप्ताभ्यो यद् रेत आसीत् तदभृज्यत, तस्माद् भृगुः समभवत्, तत् भृगोभृगुत्वम्" इत्युक्त्वा "तदथर्वाभवत्” इति भृगोरेवाथर्वतामभिधायाह तमाथर्वणम्' इति । अभ्यश्राम्यदभ्यतपत् समतपदिति । गायत्र्यादिच्छन्दसां पुनः पुनः प्रयो- 10 गात् तदभिमानिनीनां देवतानां पीडातः श्रमः, गायत्र्याघभिमानिनीनां च देवतानां श्रमादथर्ववेदाभिमानिनीनामपि देवतानां श्रमः, गायत्र्यादिदेवतासम्बन्धात् तासाम्; अतोऽनेन द्वारेणाथर्वाणमभ्यश्राम्यदखेदयत् । अन्तर्भूतण्यर्थाः प्रयोगा अमी; अभ्यतपत् विशिष्टफलनिष्पत्तये समालोचयत् प्राबलयद्वा। श्रमजननादेव च समतपत् समतापयद् उत्पन्नसन्तापमकरोत् । तस्मात् तथाश्रान्तादत एव तप्तात् संतप्तात् । यथा सम्बन्धि- 15 पीडया पीडिताः सन्तप्ता मनस ऊर्ध्वमुत्क्रान्तिं कुर्वते तथा तस्मादक्षरमूर्ध्वमुत्क्रान्तमित्यर्थः। यथा च लोके तस्करैः पीड्यमाने बालकादौ तत्सम्बन्धिनोऽतिस्नेहात् प्राणोत्क्रान्तिं कुर्वन्ति तस्करेभ्यश्च सारभूतं सर्वस्वं प्रयच्छन्ति तथाथर्ववेदाद् अप्रियाद् भीत्या तथाविधावस्थाप्राप्तात् सारभूताक्षरनिःसृतिरिति तात्पर्यम् । तथा महाव्याहृतीनामिति । तथाहि “प्रजापतिर्वा इदमग्र आसीत्' इत्युपक्रम्याह “स इमास्त्रीन् वेदान- 20 भितताप । तेभ्यस्तप्तेभ्यस्त्रीणि शुक्राण्प्रजायन्त भूरिति ऋग्वेदाद् भुव इति यजुर्वेदात् स्वर् इति सामवेदात् तद् ऋग्वेदेनैव हौत्रमकुर्वत यजुर्वेदेनाध्वर्यवं सामवेदेनौद्गात्रं यदेव त्रय्यै विद्यायै शुक्रं तेन ब्रह्मत्वम्” इति पृथग् ब्रह्मवेदप्रतिपादकेन शुक्रशब्देन व्याहृतीनां निर्देशादथर्ववेदादुत्थानमिति दर्शयति । तथा च "मन एवाक्षरमूर्ध्व गुदगात्” इत्यस्या- : वसान आह “स य इच्छेत् सर्वैरेवाथर्वभिश्चाथर्वणैश्च कुर्वीतेत्येतयैव तं महाव्याहृत्या 25 कुर्वीत' इत्यादि । अनेन प्रागुक्तोत्पत्तिकानामाथर्वणत्वं दर्शितम्। बृहदीत्यादिनां बृहज्जनः
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy