________________
३६६
न्यायमञ्जयां
[ चतुर्थम्
अन्ये पुनः ऋक्प्रचुरत्वात्, प्रविरलयजुर्वाक्यत्वाद्, गीयमानसाममन्त्रतावशाच्च ऋग्वेदमेवाथर्ववेदमाचक्षते । अयमपि पक्षोऽस्तु न कश्चिद्विरोधः।
यत् पुनरभिधीयते वेदशब्दस्त्रयाणामेव वाचको न चतुर्थस्येति । सोऽयमत्युस्कटो द्वेषः, वृद्धव्यवहारो ह्यत्र प्रमाणम् । वेदोऽयं ब्राह्मणोऽयमिति तत्र तत्र वेदशब्दे उच्चारिते चत्वारोऽपि प्रतीयन्ते। वेदो मयाधीत इति वदन्तं पृच्छन्ति व्यवहारः कतमस्त्वयाधीतो वेद इति, स आह अथर्ववेद इति। न तमेवमाक्षिपन्ति नासौ वेदो यस्त्वया पठित इति । सोपपदोऽथर्ववेदे वेदशब्द इति चेद्, वेदान्तरेष्वपि तुल्यमेतत् ऋग्वेदो यजुर्वेदः सामवेद इति । निरुपपदोऽपि तेषु वेदशब्दः
प्रयुज्यते इति चेत् तदितरत्रापि समानमित्युक्तम्, चतुर्वेदाध्यायी भारद्वाज इति । 10 सर्वथा तु सोपपद एवायुर्वेदादिषु वेदशब्द इति न तत्तुल्यकक्षताधिक्षेप-क्षेत्रतामथर्व
वेदो नेतव्यः । ब्रह्मयज्ञविधिश्च श्रौतश्चतुजप्यविशिष्ट इत्युक्तम्। स्मार्तोऽपि तथाविध एवास्ति, यथाह याज्ञवल्क्यः
मेदसा तर्पयेद् देवानथर्वाङ्गिरसः पठन् ।
पितृ श्च मधुसपिया॑मन्वहं शक्तितो द्विजः ॥ इति साम्प्रदायिकमध्यापनादियजनादि सर्वमभिन्नमेवेत्यलं प्रसङ्गेन ।
तेन प्रमाणतायां वेदस्वाध्यायशब्दवाच्यत्वे पुरुषार्थसाधनविधावपि चत्वारः समा वेदाः। वेदानामुत्तराधरतायां पृष्टेऽथर्ववेदस्यैव प्राथम्यम्
यदि पुनरौत्तराधर्येण विना न परितुष्यते तदथर्ववेद एव प्रथमः, ततः 20 परमस्य मन्त्रस्य ब्रह्मणः प्रणवस्याभिव्यक्तः। तथा च श्रुतिः, 'ब्रह्म ह वा इदमग्र
15
__ मेदसा तर्पयेदिति । योऽथर्वाङ्गिरसः पठति तेन देवा मेदसा पितरश्च मधुसपिभ्ां तर्पिता भवन्तीत्यर्थः।
सम्प्रदायो गुरुनुखाद् विशिष्टेन रूपेण ग्रहणम्, तत्प्रयोजनं यस्याविध्नार्थस्य 'अस्यां तिथावध्येयम्' 'अस्यां न' इत्येवंरूपस्य धर्मजातस्य, तत् साम्प्रदायिकम्।।
ब्रह्म ह वा इति । एतद्ब्राह्मणवाक्यमध्ये “सोऽपः स्पृष्वा तासु स्वां छायामप
25