________________
आह्निकम् ]
प्रमाणप्रकरणम् यत्तु 'नाथर्वणेन प्रवृञ्च्यादिति तत् कल्पसूत्रवाक्यत्वाद् वेदविरुद्धमित्यनादृतम्। अथापि श्रौतमिदं वाक्यम् ? तदापि प्रकरणाधीतं चेत्तत्र क्वचित् कर्मणि निवेक्ष्यते। अनारभ्यवादपक्षेऽपि पूर्वोक्तवाक्यपिसदृशार्थत्वादथर्ववेदस्य च त्रयोबाह्यत्वेन सम्पर्कपरिहारार्हत्वानियतविषयमेव व्याख्यास्यते।
यदप्युच्यते 'उच्चैऋचा क्रियते उच्चैस्साम्नोप।शु यजुर्षे'तिवदथर्वधर्मोऽपि 5 न कश्चिदाम्नात इति, तदप्यसारम् । मन्त्रधर्मो ह्ययमुपदिश्यते न वेदधर्मः । मन्त्रब्राह्मणसमुदायस्वभावा हि चत्वार इमे वेदग्रन्थाः। मन्त्रास्तु ते गद्यपद्यभेदाद् द्विधैव। गद्यबन्धो यजुरुच्यते पद्यबन्ध ऋगिति गीतिनिबन्धनन्तु भेदान्तरं सामेति । अत एव जैमिनिना मन्त्रविभागं प्रस्तुत्य तेषामृग यत्रार्थवशेन पादव्यवस्था, गोतिषु सामाख्या, शेषे यजुः शब्दः, इत्थमेव तेषां त्रैविध्यमुपपादितम् । तेषामेव चायमुच्चैरादिधर्मो 10 न वेदशब्दवाच्यानां मन्त्रब्राह्मणसमुदायात्मनां ग्रन्थानाम् । अथर्ववेदेऽपीयं त्रिविधव मन्त्रजातिरिति तत्रापीदं धर्मजातमुपदिष्टं भवति। मन्त्रविभागकृत एवायं त्रयीव्यपदेश इति। तच्च 'सैषा त्रयी विद्या तपती'त्याद्यपि न विरोत्स्यते । एवं ऋग्यजुःसामसमुदायात्मकमन्त्रोपबन्धात् त्रय्यन्तर्गतश्च अथर्ववेदः पृथगव्यवस्थितग्रन्थसन्दर्भस्वभावत्वाच्च भिन्न इति स्थितम् ।
20
वेदविरुद्धमित्यनादृतम् । कल्पसूत्राणां वेदविरोधे दुर्बलत्वान्मीमांसकैश्चाविरोधेऽपि तेषा प्रामाण्यानभ्युपगमात् । अनारभ्यवादपक्ष इति । 'अनारभ्याधीतानां प्रकृतिगामित्वम्' इति यद्यपि प्रकृतौ निविशते तथापि प्राङ्नयेनाथर्वविदो ब्रह्मत्वप्रतिपादनादथर्वविहितेन कर्मणा सम्पर्को दुष्परिहर इति नियतकमै देशविषयतया तद् व्याख्येयमिति तात्पर्यम् ।
तेषाम् ऋगिति। अर्थवशेन तथा 'अग्निमोले पुरोहितम्' इति । अत्र क्रियाकारकलक्षणार्थपरिसमातेः पादव्यवस्था । ननु हि "अग्निः पूर्वेभिर्ऋषिभिः' इत्यत्र क्रियापदाश्रवणात् पादव्यबस्था न प्राप्नोति । उक्तमत्र भाष्यकृतवार्थग्रहणम् अत्रानुवादो वृत्तवशेनापि भवतीति । गोतिषु सामाख्येति । यस्याम् ऋचि सामोत्पन्नं सा शुद्धा पठ्यमाना न सामशब्दव्यपदेशं लभते । तच्च साम ऋगन्तरेऽपि गीतं तच्छब्देन व्यपदिश्यते। 25 तथाहि रथन्तरमनेन श्लोकेन गीतमिति व्यवहारस्तदेवमन्वयव्यतिरेकाभ्यां गीतेरेव सामत्वं न ऋग्विशेषस्य। शेषे यजुरिति या न गीतिर्न च ऋक् तत्र 'यजुः' शब्दः ।