________________
[ चतुर्थम्
वेदाः वेदानामेतन्मूलं यदृत्विजः प्राश्नन्ति तद् ब्रह्मौदनस्य ब्रह्मौदनत्वमिति । तथा सामवेदे पृष्ठयस्य चतुर्थेऽहन्यार्भवे पवमाने आथर्वणे साम्नौद्गात्रं यत्तद्विधाने श्रूयते चतुणिधनं भवति चतूरात्रस्य धृत्त्यै चतुष्पदानुष्टुभा अनुष्टुभमेवैतदर्यच्चतुर्थं भेषजं वाथर्वाणं तद्धि भैषज्यमेव तत् करोत्याथवर्णानि 5 यागभेषजानीत्येतदालम्बनेयं स्तुतिरत एव प्रागुक्तम् 'यज्ञे यदूनव विरिष्टश्च यातयामश्च करोति तदथर्वणा तेजसाप्याययती 'ति । तस्मादाथर्वण एव ब्रह्मेति । एतच्च शास्त्रान्तरे विस्तरेणाभियुक्तैर्युक्तिभिरुपपादितमिति नेहात्यन्ताय प्रतायते ।
३६४
1
स्तुतिरियम्, तस्य प्रतिवेदमेकैकशरावापेक्षया यचतुः शराव उक्तः । चत्वारः शरावा 10 ब्रीहीणामत्र निरूप्यन्ते ब्रीहिपूर्णाच्छकटादुद्धियन्ते, जुष्टं सेवितम्, तदुद्द ेशेन निरूप्यते । पृष्ठ्यस्य चतुर्थेऽहनीति । द्वादशाहेन प्रजाकामं याजयेदिति । द्वादशाहमध्ये पृष्ठ्यः षडह आम्नातः, पृष्ठ्यः पृष्ठयाख्यस्तोत्रविशेषोपलक्षितः । तथा च द्वादशाहेऽहः क्लृप्तिः, प्रायणीयोऽतिरात्रः, पृष्ट्यः षडहः, त्रयश्छन्दोगा अविवाक्यमहरुदयनीयोऽतिरात्र इति । र्भवे पवमानइति । तृतीयसवनभाविनि पवमानाख्ये स्तोत्रविशेषे । चतुणिधनं' चत्वारि निधनानि गानभक्तिविशेषा यत्र । चतूरात्रस्य षडहसम्बन्धिनोऽनुतस्य । धृत्यै प्रतिष्ठायै । चतुष्पदानुष्टुभा चतुष्पादानुष्टुप् छन्दोऽत्र प्रयुज्यते । यदत्र कर्मण्याथर्वणं भवति तद् भैषज्यमेव । यज्ञे तन्निर्वहणमेव करोति यतो भेषजं वा । आथर्वणानीति । यागभैषजान्येतानि यदाथर्वणानि कर्माणीत्यर्थः । ननु " नर्ते भृग्वङ्गिरोविद्भयः सोमः पातव्यः” इत्यस्याथर्ववेदविदं ब्रह्माणं विना न सोमः पातव्य इत्यर्थो व्याख्यातो, 202 भृग्वङ्गिरोरूपाणां मन्त्राणामथर्ववेद एव पाठादिति । तच्चायुक्तम्, ऋग्वेदे यजुर्वेदे च भृग्वङ्गिरा नाम कश्चिद् ऋषिस्तेन दृष्टानां मन्त्राणां दर्शनादिति । " नेतदेवम्, 'ऋग् यजुः सामान्युपक्रान्ततेजांस्यासंस्तत्र महर्षयः परिवेदयां चक्रुः" इत्यारभ्य 'नर्ते भृग्वङ्गिरोविद्भयः सोमः पातव्यः' इत्यनेनाभिधानात् ; गोबलीवर्दन्यायेन भृग्वङ्गिरोमन्त्रा अथर्वमन्त्रेष्वेव वर्तन्ते" इत्याक्षेपप्रतिसमाधाने वक्तव्ये सतीत्थं किमिति नोक्तम् । तथा " यदेतत् त्रय् विद्यायै शुक्रम्" इत्यस्य यथाश्रुतचतुर्थ्यन्तस्य व्याख्यानान्तरमपि कुर्वन्ति । शुक्रं सारभूतोऽयमथर्ववेदो ब्रह्मवेदस्तेन ब्रह्मत्वं कुर्यात् । किमर्थम् ? 'त्रय्यै त्रयीगतभ्रं षनिबर्हणार्थम्" इत्याद्यन्यदपि बहुवक्तव्यमत्रास्ति, तत्कथं ग्रन्थकृता नोक्तमित्याशङ्क्याह एतच्च शास्त्रान्तरे विस्तरेणेति ।
15
न्यायमञ्जय
25