________________
३६३
आह्निकम् ।
प्रमाणप्रकरणम् न ते समुदायशब्दव्यपदेश्याः । यत्तु वाक्यान्तरे 'त्रय्य विद्यायै शुक्र तेन ब्रह्मत्वमिति तत्रेयं चतुर्थी षष्ठयाः स्थाने प्रयुक्ता । शुक्रमिति सारमाचक्षते । तेन त्रयीविद्यायाः सारेण ब्रह्मत्वं क्रियते इत्युक्तं भवति । न च त्रय्येव त्रय्याः शुक्रं भवति न चात्यन्तं ततोऽर्थान्तरमेव । तेनेदमथर्ववेदात्मकमेव त्रय्याः शुक्रम् । शुक्रमिति च गुह्यमाहुः, अथर्वशब्दोऽपि रहस्यवचनो 'यज्ञाथर्वाणं वै काम्या इष्टय' इति । तेन त्रयीशुक्ररूपेणाथर्ववेदेन ब्रह्मत्वमितीत्थमथर्ववेदस्य न त्रयीबाह्यत्वम् । इत्थं सर्वशाखाप्रत्ययमेकं कर्मेति न सर्वशब्दः सङ्कोचिनो भवति । अत एव ब्रह्मवेदोऽथर्ववेद इति पूर्वोत्तरब्राह्मणे पठ्यते ऋग्वेदो यजुर्वेदः सामवेदः ब्रह्मवेद इति । तथा च काठकशताध्ययने 'ब्राह्मणे ब्रह्मौदने श्रूयते ब्रह्मवादिनो वदन्ति पुरा वा औद्दाल. किरारुणिरुवाच ब्रह्मणे त्वा प्राणाय जुष्टं निर्वपामि ब्रह्मणे त्वा व्यानाय जुष्टं 10 निर्वपामि'इत्युपक्रम्य 'आथर्वणो वै ब्रह्मणः समानोऽथर्वणमेवैतज्जुष्टं निर्वपति ततश्चतुः शरावो भवति चत्वारो हीमे वेदास्तानेव भागिनः करोति मूलं वै ब्रह्मणो मरणकामनाद्याः सर्वा युगपद् उत्पत्तुमर्हन्ति, तथाविधानां विरुद्धानामिच्छानां युगपदुत्पादादर्शनात् ।
यज्ञाथर्वाणं वै काम्या इष्टयः 'चित्रया यजेत पशुकामः' इत्याद्याः। यज्ञा 15 अथर्वयज्ञा रहस्ययज्ञा इत्यर्थः। न सर्वशब्दः सङ्कोचितो भवति। अशेषवेदवृत्तेरेकपरिहारेण वृत्तिः सङ्कोचः । पूर्वोत्तरब्राह्मणे यत्र 'ऋग्वेदः किं वेद' इति पूर्वमभिधाय 'हौत्रं वेद' इत्युत्तरम् । ब्रह्मोदने श्रूयत इति । ब्रह्मौदनाख्ये चरौ, स हि ऋत्विगुद्दे शेन क्रियते न देवतान्तरोदेशेन, 'यह ऋत्विजः प्राश्नन्ति तद् ब्रह्मोदनस्य ब्रह्मौदनत्वम्' इति वचनाद् ऋत्विक्संस्कारार्थत्वं तस्य, न यागद्रव्यत्वम्; अतश्चतुःशरावनिवपेिष्टौ हुत्वा 20 ऋत्विज उद्देश्याः । ब्रह्मणे त्वा प्राणाय जुष्टं निर्वपामि, ब्रह्मणे त्वा व्यानाय जुष्टं निर्वपामि, ब्रह्मणे त्वापानाय जुष्टं निर्वपामि ब्रह्मणे त्वा समानाय जुष्टं निर्वपामीत्यभिधायाह 'श्रुता या देवतास्तासामेवैतज्जुष्टं निर्वपति, ऋचो वै ब्रह्मणः प्राणाः, ऋचामेवैतज्जुष्टं निर्वपति; यजूंषि वै ब्रह्मणो व्यानो, यजुषामेवैतज्जुष्टं निर्वपति; सामानि वै ब्रह्मगोऽपानः, साम्नामेवैतज्जुष्टं निर्वपति; अथर्वाणो वै ब्रह्मणः समानः, 25 अथर्वणामेवैतज्जुष्टं निर्वपति, इति । ततश्चतुःशरावो भवतीत्याह । यतश्च मूलं ब्रह्मणो वेदाः, वेदानां मूलम् ऋत्विजोऽतो यद् ऋत्विग्भ्यो दत्तं तद्वेदेभ्यो दत्तं भवतीत्यत आह–'चतुःशरावो भवति' इति । चत्वारो हीमे वेदास्तानेव भागिनः करोतीति ।