________________
३६२
5
उच्यते । वयमप्येवमादीनि वाक्यानि न नाधीमहि किन्त्वेषामयमेवार्थोऽथवङ्गिरोविदेव ब्रह्मेति । कथम् ? यतो न त्रयी नाम किमपि वस्त्वन्तरम्, अपि तु त्रयाणां वेदानां समाहार इति । समाहारश्च समाह्रियमाणनिष्ठो भवति । समाहियमाणाश्च ऋग्वेदादयस्त्रयो हौत्रादिपरत्वे चरितार्था न पुनस्तत्र भेदमर्हन्ति । एकैकशः चरितार्थानां समुदायोऽपि चरितार्थ एव । समुदायबुद्धौ हि विभज्यमानायां समुदायिन एव प्रस्फुरन्ति नावयविवदर्थान्तरम्, ते चान्यत्र व्यापृताः । कि नु खलु ऋग्वेदादीनां ब्रह्मत्वं कुर्वतामतिभारो भवति न ब्रूमोऽतिभार इति । 10 किन्तु त्र्यात्मकत्वेन ब्रह्मत्वकर्त्तव्यतोपदिश्यते । त्र्यात्मकश्चान्यतमोऽपि तेषां न भवति वेदः । अथर्ववेदस्तु त्र्यात्मक एव । तत्र हि ऋचो यजूंषि सामानि इति त्रीण्यपि सन्ति । तेन ब्रह्मत्वं क्रियमाणं त्रय्या कृतं भवति ।
15
20
न्यायमञ्जय
[ चतुर्थम्
विद्ययेति ब्रूयादिति । तथा च यदृचैव हौत्रमकुर्वत यजुषाध्वर्यवं साम्नौद्गात्रं यदेव त्रय्यै विद्यायै शुक्रं तेन ब्रह्मत्वमिति ।
25
ननु स्त्रीन् वेदानधीते तेन चेद् ब्रह्मत्वं क्रियेत तत् किं तया न कृतं भवति ? बाढमित्युच्यते । सोऽपि 'एकस्मै वा कामायान्ये यज्ञक्रतवः समाह्रियन्ते सर्वेभ्यो ज्योतिष्टोमः सर्वेभ्यो दर्शपूर्णमासाविति श्रुतावपि योगसिद्ध्यधिकरणन्यायेनान्यतममेव बुद्धावादाय विदध्यान्न समुदायं बुद्धावारोपयितुं शक्नुयादित्येतत्कृतं भवति न त्रय्येति ।
नन्वन्येऽपि त्र्यात्मका वेदाः, यद्येवं सुतरामथर्ववेदो न पृथक् करणीयः, सर्वेषां रूपाविशेषात् । तेषां पृथकप्रतिष्ठः स्वः स्वैर्ऋगादिभिरेव व्यपदेश इति
योगसिद्ध्यधिकरणन्यायेनेति । योगसिद्ध्यधिकरणे हि ' एकस्मै वा कामायान्या इष्ट्य आह्रियन्ते, सर्वेभ्यो दर्शपूर्णमासी, एकस्मै वान्ये क्रतवः कामायाह्रियन्ते सर्वेभ्यो ज्योतिष्टोमः” इति श्रुतिवाक्य मुदाहृत्य चिन्तितम् 'किं सकृत्प्रयोगे सर्वे कामा उत पर्यायेण इति' । तत्र सकृत्प्रयोगेणेति पूर्वं पक्षितम्, सर्वनिमित्तत्वेन श्रवणात्; कः खलु विशेषोऽयं भवत्ययं न भवतीति । तथा चाह " तत्र सर्वे अविशेषात् " इति । ततः सिद्धान्तितं ''योगासिद्धिर्वार्थस्योत्पत्तियोगित्वात्" इति । अस्यार्थः, न वा सर्वे कामा युगपत्, पर्यायेण योगसिद्धिः कामसम्बद्धसिद्धिः । यदा यदा यः कामस्तदा तदा तस्य सिद्धिरित्यर्थः । अर्थस्य कामस्य युगपदुत्पत्तेरसम्भवाद्विरोधाच्च । न हि आयुष्कामना •
I