________________
३६१
आह्निकम् ]
प्रमाणप्रकरणम् न साधूपदिष्टम। इष्टिपश्वेकाहाहीनसत्रादिकर्मणां तत्रोपदेशदर्शनात ।सर्वशाखाप्रत्ययमेकं कर्मेति न्यायात त्रय्युपदिष्टेऽपि कर्मणि अथर्ववेदात । सम्बद्धसर्वशाखाप्रत्ययमेव नाथर्वशाखाप्रत्ययम्, यतः सोमयागादिकर्मणामृग्वेदेन हौत्रं यजुर्वेदेनाध्वर्यवं सामवेदेनौदगात्रं क्रियते नाथर्ववेदेन किञ्चिदिति । तदयुक्तम्, अथर्ववेदेन ब्रह्मत्वस्य करणात् । तथा च गोपथब्राह्मणम् 'प्रजापतिः सोमेन यक्ष्यमाणो वेदानुवाच कं वो 5 होतारं वृणीयमिति प्रक्रम्य 'तस्मादृविदमेव होतारं वृणीष्व स हि हौत्रं वेद यजुविदमेवाध्वर्यु वृणीष्व स हि आध्वर्यवं वेद सामविदमेवोद्गातारं वृणीष्व स हि
औद्गात्रं वेद अथर्वाङ्गिरोविदमेव ब्रह्माणं वृणीष्व स हि ब्रह्मत्वं वेदेति। एवमभिधाय पुनराह 'अथ चेन्नैवंविधं होतारमध्वर्युमुद्गातारं ब्रह्माणं वा वृणुते पुरस्तादेव वैषां यज्ञो रिच्यते इति तस्मादृग्विदमेव होतारं कुर्याद् यजुर्विदमेवाध्वर्यु साम- 10 विदमेवोद्गातारम् अथर्वाङ्गिरसोविदमेव ब्रह्माणमिति । तथा 'यज्ञे यदूनं च विरिष्टं च यातयामं च करोति तदथर्वणां तेजसाप्याययतीति । अथ नर्ते भृग्वगिरोविद्भ्यः सोमः पातव्य' इति ।
नन्देताः श्रुतीरथर्वाण एवाधीयते नान्ये त्रयोविदः । ते त्वेवं पठन्ति 'यदचा होत्रं क्रियते यजुषाध्वर्यवं साम्ना औद्गात्रम् । अथ केन ब्रह्मत्वं क्रियते इति त्रय्या 15
सम्बद्धम् । इष्टिपश्विाते। इष्टयः दर्शपूर्णमासाद्याः। पशवोऽनूबन्ध्याद्याः। एकाहा ज्योतिष्टोमादयः । अहीना अहर्गणद्विरात्रादयः। सत्राणि द्वादशाहादीनि । त्रय्युपदिष्टेऽपि कर्मणि अथर्ववेदादिति। तस्माद् ब्रह्मा पुरस्ताद् होमसंस्थितहोमैर्यशं परिगृह्णोयादित्यनारभ्य वाक्यमिष्टिपशुसोमादिष्वाथर्वणं पुरस्ताद्धोमं संस्थितहोमं च ब्रह्मणा क्रियमाणं दर्शयति, अथर्ववेद एव तयो.मयोराम्नानादिति । वेदानुवाच कं वो होतारमि- 20 त्यत्र कं किंज्ञमिति व्याख्येयम्, उत्तरे ऋग्विदमित्यादिश्रवणात् । वः युष्माकं मध्यात् किंजं वृणोमीत्यर्थः। पुरस्तादेवैषां यज्ञो रिच्यते प्रथमत एव रिक्तो भवति । यज्ञे यदूनमिति । ऊनमङ्गैरसम्पूर्णम् । विरिष्टं विशेषेण रिष्टं, हिंसितमसम्यक्कृतमन्त्रादिप्रयोगम्। यातयाम निर्वीर्यम् । अथर्वणां मन्त्राणाम् । नर्ते भृग्वङ्गिरोविद्धय इति । यावद् भृग्वङ्गिरोविद ऋत्विजो ब्रह्माख्या न भवन्ति तावदन्यवेदविदि सत्यपि ब्रह्मणि 25 सोमपानाधिकारो नास्तीत्यर्थः।