________________
३६० न्यायमञ्जयां
[ चतुर्थ वेदेऽपि पैप्पलादकमुदाजहे । सर्वशाखाधिकरणेऽपि वेदान्तरशाखान्तरवन्मौद्गलपप्पलादकाख्ये अथर्वशाखे अप्युदाहृत्य विचारः कृतः । तथा च प्रथमयज्ञो नाम चतुर्पु वेदेषु न कश्चिदस्तीत्यधिकरणान्तरे एव लिखितम्। एवं श्रुतिस्मृतिशिष्टाचारव्यवहारविदामत्र विप्रतिपत्तिसम्भावनैव नास्ति।
आह, न बमोऽथर्ववेदो न प्रमाणमिति, किन्तु त्रयीबाह्य इति । उच्यते । त्रयीयमथर्ववेदबाव न केवलम्, एवं त्रय्यामपि परस्परबाह्यत्वमस्त्येव । ऋक्सामबाह्यानि यजूंषि, यजुः सामबाह्या ऋचः, ऋग्यजुर्बाह्यानि सामानीति कियानयं दोषः ? सर्वभावानामितरेतरसाङ्कर्यरहितत्वात्। ये हि शब्दात्मानो ग्रन्थसंदर्भ
स्वभावा ये व तदभिधेया अर्थस्वभावास्ते सर्वेऽन्योन्यसंमिश्रितात्मान एव । न च 10 परेणात्मानममिश्रयन्तोऽपि ते स्वरूपमपि हारयन्तीति ।
अथोच्यते नेदृशं त्रयोबाह्यत्वमथर्ववेदे विवक्षितम्, अपि तु यदेष न त्रयोप्रत्ययं कर्मोपदिशति न तत्सम्बद्धं किञ्चिदिति तदस्य त्रयीबाह्यत्वमिति । एतदपि
आख्येति, ततः सिद्धान्तितम् 'आख्या प्रवचनात्' इति । प्रवचननिमित्ता'याख्या भवति न केवल कतृ निमित्ता। यतः कठेन प्रकर्षेणाध्ययनमरय कृतमतः काठकमित्यभिधीयते, "तेन प्रोक्तम्" इति प्रोक्तेऽपि तद्धितस्मरणात् । सर्वशाखाधिकरणेऽपीति । सर्वशाखाधिकरणं यत्र प्रतिशाख श्रूयमाणानि अग्निहोत्रादिकर्माणि किमन्यान्यानि आहोस्विद् एकमेव तत्कौति चिन्त्यते। तत्र काठकं कालापकमित्याद्यभिधानाद् भेदः, क्वचिदग्नीषोमीय एकादशकपालः श्रूयते क्वचिद् द्वादशकपाल इत्यादिरूपभेदादिभ्यश्च भिन्नत्वमिति पूर्वपक्षमाशङ्क्य सर्वशाखास्वेकतया प्रत्यभिज्ञायमानत्वात् सर्वशाखापेक्षोत्पत्तिकं सर्वशाखाप्रत्ययमेकं कर्मेति ज्यवस्थापितम्। अधिकरणान्तर इति । “सङ्ख्यायुक्तं क्रतोः प्रकरणात्" इत्यत्र । अत्र हि “एष वाव प्रथमो यज्ञानां यज्ज्योतिष्टोमः" इति वचनसमाश्रयणेन ज्योतिष्टोमस्य प्रथमयज्ञत्वं पूर्णपक्षे व्यवस्थाप्य सिद्धान्ते प्रथमप्रयोगाभिप्रायेण प्रथमयज्ञशब्दो निरूपितः 'प्रथमं प्रयुज्यमानो यज्ञः प्रथमयज्ञः'
इति । अत्र प्रसङ्गे चेद नुक्तम् “न चैतदस्ति यज्ञस्यैष वाद इति । चतुळपि गेदेषु न 25 प्रथमयज्ञ इत्येगंसंज्ञकः कश्द् ियज्ञोऽस्ति" इति ।
न त्रयीप्रत्ययमिति त्रयीप्रत्ययं त्रयीप्रतिपाद्यम्। तत्सम्बद्धम् त्रयं प्रत्यय