________________
३५९
आह्निकम् ]
प्रमाणप्रकरणम् अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश ॥ इति । अन्यत्राप्युक्तम् 'पुराणं धर्मशास्त्रं मीमांसा न्यायश्चत्वारो वेदाः षडङ्गानीति चतुर्दश विद्यास्थानानी'ति । शातातपोऽप्याह
ऋक्सामयजुरङ्गानामथर्वाङ्गिरसामपि।
अणोरप्यस्य विज्ञानाद् योऽनूचानः स नो महान् ॥ इति । तथान्यत्र 'चत्वारश्चतुर्णां वेदानां पारगा धर्मज्ञाः परिषदि'त्युक्तम् । शङ्कलिखितौ च 'ऋग्यजुः सामाथर्वविदः षडङ्गविद् धर्मविद् वाक्यविद् नैयायिको नैष्ठिको ब्रह्मचारी पञ्चाग्निरिति 'दशावरा परिषदित्यूचतुः । प्राचेतसे 'चत्वारो वेदविदो धर्मशास्त्रविदिति पञ्चावरा परिषदि'त्युक्तम्। तथा च पतितपावनप्रस्तावे चतुर्वेदः ॥ षडङ्गवित् ज्येष्ठसामगोऽथर्वाङ्गिरसोऽप्येते पङ्क्तिपावना गण्यन्ते । तदयमेवमादिवेदचतुष्टयप्रतिष्ठाप्रगुण एव प्राचुर्येण धर्मशास्त्रकाराणां व्यवहारः। अन्येऽपि शास्त्रकारास्तथैव व्यवहरन्तो दृश्यन्ते। यथा च महाभाष्यकारो भगवान् पतञ्जलिरथर्ववेदमेव प्रथममुदाहृतवान् ‘शन्नो देवीरभिष्टये, इति, मीमांसाभाष्यकारेणापि वेदाधिकरणे 'काठकं कालापकं मौद्गल पप्पलादकम्' इति यजुर्वेदादिकवद्अथर्व- 15
अणोरप्यस्य विज्ञानादिति न केवलम्, अपि तु
न हायनै न पलितै न वित्तेन न बन्धुभिः ।
ऋषयश्चक्रिरे धर्म योऽनूचानः स नो महान् ॥ इति । 'वर्षादिकृतज्यैष्ठ्यव्यतिरेकेण साङ्गवेदाध्ययनबललब्धानूचानव्यपदेशो नोऽस्माकं । महान् ज्यायान्' इत्येवम् ऋषयो धर्ममर्यादां कृतवन्तः । यावदस्य पूर्वोक्तस्य ऋगादेः सम्बन्धिनोऽणोरपि स्वल्पस्यापि अर्थद्वारेण विज्ञानादपि यो लब्धानूचानव्यपदेशः सोऽपि नो महानिति ऋषयो धर्म चक्रिर इत्यर्थः ।
नैष्ठिको ब्रह्मचारी यो ब्रह्मचर्येणैव शरीरं निष्ठाम् अन्तं नयति । पञ्चाग्निः सभ्यावसथ्याभ्यां सह त्रेतया । वेदाधिकरण इति । यत्र 'वेदांश्चैके सन्निकर्ष पुरुषाख्या' 25 इति कठादिकृतत्वेन काठकादिसमाख्यावशात् कृतकत्वेन वेदानां पूर्वपक्षः कृतः, वेदां चैके सन्निकर्ष सन्निकृष्टकालभवं वाक्यजातं मन्यन्ते । यतः पुरुषैः काठकादिभिस्तस्य