________________
३५८ न्यायमञ्जयां
[ चतुर्थम प्राची महती दिगुच्यते दक्षिणामाहुर्यजुषाम् साम्नामुतराम् अथर्वणामङ्गिरसां प्रतीची महती दिगुच्यते, इति, शतपथे ब्रह्मयज्ञविधिप्रक्रमे "मध्यमे पय आहुतयो वा एता देवानां यदृचः' इत्युपक्रम्य ‘मेद आहुतयो वा एता देवानां यदथर्वाङ्गिरसः
स्म य एवं विद्वानथर्वाङ्गिरसोऽहरहः स्वाध्यायमधीते मेद आहुतिभिरेव देवान् स 5 तर्पयति त एनं तृप्तास्तर्पयन्ति' इति मन्त्रा अपि तदर्थप्रकाशनपरा अनुश्रूयन्ते ।
"त्वामग्ने पुष्करादध्यथर्वा निरमन्थत" इत्यादयो न चैषामथर्वा नाम कश्चिदृषिरित्येवम्प्रकारं व्याख्यानं युक्तम्, अन्यत्राप्यसमाश्वासप्रसङ्गात् । इत्येवजातीयकास्तावदुदाहृताः श्रुतिवाचः। स्मृतिवाक्यानि खल्वपि, मनुस्तावत् "श्रुतीरथ
र्वाङ्गिरसीः कुर्यादित्यभिचारयन्" इति श्रुतिशब्देन त्रयीवद् व्यवहरति । 10 याज्ञवल्क्यः चतुर्दशविद्यास्थानानि गणयन्
पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इति चतुर एव वेदानावेदयते, नान्यथा हि चतुर्दशसंख्या पूर्यते, स्मृत्यन्तरे च स्पष्टमेवोक्तम्
15 रहस्यविधिरूपो अंशविशेषः । प्रतिष्ठेति । पुच्छे हि सति लब्धप्रतिष्ठो भवति । ब्रह्म
यज्ञविधिप्रक्रम इति। ब्रह्मयज्ञो यत्र वेदाध्ययनमेव विशिष्टयेतिकर्तव्यतया क्रियते । तत् क्रियमाणं यज्ञशब्दवाच्यम् । त्वामग्नेपुष्करादिति । “त्वामग्ने पुष्करादध्यथर्वा निरमन्थत । मूर्नो विश्वस्य वाघतः' इत्यग्निनिर्मथने मन्त्रः। अत्राथर्वशब्देनाथर्वविद्
ब्रह्माभिहितः। हे अग्ने त्वां पुष्करादरणिषु शिरारूपादाकाशाद् अथर्वा अथर्वविद् 20 ब्रह्मा निरमन्थत निर्मथितवानुदपादयत् । अरणिस्पर्शनरूपव्यापारवत्त्वेन तत्कर्मणि
तस्य मुख्यत्वात् । कथञ्च निरमन्थत ? अधि आधिपत्येन युक्तः, ऋत्विगन्तराणामनुज्ञादानेन तस्य प्रशास्तृत्वात् । तदनन्तरन्तु विश्वस्य मूर्नो मूर्धानः प्रधानभूता वाघत ऋत्विजोऽग्नि निर्मथितवन्तः, होत्रादयः वाघत ऋत्विजः, 'ऋत्विजो भरताः कुरवो
वाघतः' इति ऋत्विङ्नामसु पाठात् । अत्र ब्रह्मण ऋत्विक्त्वेऽपि मुख्यत्वेन पृथनिर्देशो 25 'ब्राह्मणा आगता वशिष्ठाश्च' इतिवत् । श्रुतीरथर्वाङ्गिरसीरित्यस्यान्त्यमर्धम्
'वाक्छस्त्रं ब्राह्मणस्य तेन हन्यादरीन् द्विजः' इति । वागत्राभिचाररूपा विवक्षिता । अथर्वमन्त्रैराभिचारिकः शत्रूनभिचरेदित्यर्थः । कुर्यात् प्रयुञ्जीत।