________________
प्रमाणप्रकरणम्
३५७
आह्निकम् ] व्यवहारादितोऽप्यथर्ववेदस्य प्रामाण्यम्
व्यवहारोऽपि सर्वेषां सारेतरविचारचतुरचेतसां चतुभिरपि वैदैश्चतुर्णा वर्णानामात्रमाणाञ्चतसृषु दिक्षु चतुरब्धिमेखलायामवनौ प्रसिद्ध इति कोऽयमत्रान्यथास्वभ्रमः ? श्रुतिस्मृतिमूलश्चार्यावर्तनिवासिनां भवति व्यवहारः । ते च श्रुतिस्मृती चतुरोऽपि वेदान् समानकक्षानभिवदतः । ऋग्यजुःसामवेदेष्वपि अथर्ववेदाशंतीनि । भूयांसि वचांसि भवन्ति । तद् यथा शतपथे अथ तृतीयेऽहनीत्युपक्रमस्याश्वमेधे पारिप्लवोपाख्याने 'सोऽयमाथर्वणो वेद' इति श्रूयते, छान्दोग्योपनिषदि च "ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ" इति पठ्यते ।
नन्वितिहासपुराणानि पञ्चम इति तत्र पठ्यत एव किञ्चातः ? किमियताथर्वणश्चतुर्थो न भवति वेदः ? चतुर्थशब्दोपादानादितिहासादितुल्योऽसौ न 10 वेदसमानकक्ष इति चेत्, केयं कल्पना ? चतुर्थशब्दोपादानादप्राधान्ये 'त्रयो वेदा असृज्यन्त, इत्यादौ त्रित्वसंख्योपादानात् तेऽपि न प्रधानतामधिगच्छेयुः? इतिहासादिभिर्वा सह परिगणनमप्राधान्यकारणं यदुच्यते तदपि सर्ववेदसाधारणमिति यत्किञ्चिदेतत्।तथा शताध्ययनेऽपि 'ऋचो वै ब्रह्मणः प्राणाः, इत्यभ्युपक्रम्य 'आथर्वणो व ब्रह्मणः समान' इति पठ्यते, तथा 'येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्योदोच्यो मधु- 15 नाड्योऽथर्वाङ्गिरस एव मधुकृत' इति, तथा तैत्तिरीये 'तस्माद् वा एतस्मात् प्राणमयादन्योऽन्तर आत्मा मनोमयः' इति प्रस्तुत्य तस्य यजुरेव शिरःऋग् दक्षिणःपक्षः सामोतरः पक्षः आदेश आत्माथर्वाङ्गिरसः पुच्छं प्रतिष्ठा'इति पठ्यते, तथान्यत्र 'ऋचां · अश्वमेधे पारिप्लवोपाख्यान इति । तत्र राजानमभिषिञ्चतीति राज्ञोऽभिषेकसमयेऽभिषेषचनीयेष्टिक्रमे आख्यानानि सन्तीति । हरिश्चन्द्रोपाख्यानं शौनकोपाख्यानं 20 विशिष्टषिराजचरितसम्बन्धा ग्रन्थविशेषाः पाठ्यत्वेन चोदिताः, तत्र च पारिलवोपाख्यानस्याथबवेदतया स्तुतिः कृता ।
तथा येऽस्य प्रत्यञ्चो रश्मय इति । तत्र 'आदित्यो वै देवमध्विति प्रकृते येऽस्य देवमध्वात्मन आदित्यस्य । मधुनाड्यो नु मधुधारिण्यः ऋच एव पुष्पं मधुजनकम् । अथर्वाङ्गिरस इत्यथर्ववेदमन्त्राणामाख्या। अथर्वाङ्गिरस एव मधुकृत इत्यत्रेतिहास- 25 पुराणं पुष्पमिति ग्रन्थशेषः । मनोमय इति । आशुगतित्वाद् । पुरुषविधतां रूपयित्वा तदवयवविभागमाह यजुरेव शिर इत्यादि । आदेशः "आदित्यो वै ब्रह्म" इत्यादिको