SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३५६ अ 5 न्यायमञ्जय 15 पूर्वोक्तशङ्कायाः समाधानम् 20 एवमाक्षेपे सति केचिदाचक्षते यदि यज्ञोपयोगित्वं नेहास्त्याथर्वणश्रुतेः । अर्थान्तरे प्रमाणत्वं केनास्याः प्रतिहन्यते ॥ शान्तिपुष्टयभिचारार्था एक ब्रह्मत्विगाश्रिताः । क्रियास्तया प्रमीयन्ते त्रय्येवात्मीयगोचराः ॥ इति । एवं तत्तु सर्व न साध्वभिधीयते । तथा हि 'तत्प्रमाणं बादरायणस्यानपेक्षत्वादिति य एष वेदप्रामाण्याधिगतौ जैमिनिना निरदेशि पन्थाः, यो वाक्षपादेन कणादेन प्रकटितः 'तद् वचनादाम्नायस्य प्रामाण्यमिति 'मन्त्रायुर्वेदप्रामाण्यवच्च 10 तत्प्रामाण्यमाप्तप्रामाण्यादिति स चतुर्ष्वपि वेदेषु तुल्यः । तत्र विशेषतुषोऽपि न कश्चिदस्ति प्रयत्नेनान्विष्यमाणः प्राप्यते । न हि मीमांसकपक्षे एवं वक्तुं शक्यते येवानादिमती नाथर्वणश्रुतिः, तस्यां कर्त्तृ स्मरणसम्भवादिति । नापि नैयायिकादिपक्षे एवं शक्यम् आप्तप्रणीतास्त्रयोवेदाश्चतुर्थस्तु नाप्तप्रणीत इति । तेन प्रामाण्याधिगमोपायाविशेषात् समानयोगक्षेमतया चत्वारोऽपि वेदाः प्रमाणम् द। चतुर्थ यदि यज्ञोपयोगित्वमिति । "क्रीत राजकभोज्यान्न" इत्येतद् वाक्यमथर्ववेदेऽरित । "अग्नीषोमीये संस्थिते दीक्षितस्य गृहे नाश्नीयात्" इत्येतच्च त्रय्यां श्रूयते । अथर्ववेदस्य यज्ञोपयोगशून्यत्वेन प्रामाण्य व नास्त्वतः कथमस्य त्रयीगतेन " अग्नीषोमीये संस्थि तीक्षितस्य गृहे नाश्नीयात्" इत्यनेन सह विरोध इत्याशङ्क्य तन्त्रटीकायामुक्तम् क्रीत राजकभोज्यान्नवाक्यं चाथर्ववैदिकम् । न च तस्याप्रमाणत्वे किञ्चिदप्यस्ति कारणम् ॥ यज्ञानुपयोगः कारणमिति चेनेत्याह यदि यज्ञोपयोगित्वमिति । आत्मीयगोचरा इति । आत्मीयः स्वसम्बन्धी पदार्थो गोचरो विषयो यासाम् । यः पदार्थो यस्मिन् वेद उत्पन्न: स पदार्थस्तस्य वेदस्यात्मीयः, अतरतेन वेदेन तत्पदार्थविषयाः क्रियाः । यथासौ पदार्थः क्रियतेऽनुष्ठीयते तथा प्रमीयते प्रतिपाद्यते नान्यपदार्थगोचराः । यथा यजुर्वेद उत्पन्नयो25 दर्शपूर्णमासयोः क्रिया यजुर्वेदेन प्रतिपाद्यते न सामवेदोत्पन्नस्य श्येनादेरिति । एकब्रह्मत्वाश्रिता इति । ऋत्विगन्तरनिरपेक्षेण ब्रह्मणैव निर्वर्त्यन्ते याः ।
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy