________________
आह्निकम् ] प्रमाण प्रकरणम्
३५५ शाखान्तरोपदिष्टविशिष्टज्योतिष्टोमाद्यनेककर्मानुप्रविष्टहौत्राध्वर्यवादिव्यापारव्यतिषङ्गदर्शनात् तदर्था त्रय्येव यथा प्रमाणभावभागिनी भवितुमर्हति न तथा पृथग्व्यवहारा आथर्वणश्रुतिः । तथा च लोके चतस्र इमा विद्याः प्राणिनामनुग्रहाय प्रवृत्ता आन्वीक्षको त्रयी वार्ता दण्डनीतिरिति प्रसिद्धिः।
श्रुतिस्मृती अपि तदनुगुणार्थे एव दृश्येते, श्रुतिस्तावद् "ऋभिः प्रातदिवि । देव ईयते यजुर्वेदेन तिष्ठति मध्येऽह्नः सामवेदेनास्तमेति वेदैरशून्यस्त्रिभिरेति सूर्यः" इति, तथा "प्रजापतिरकामयत बहु स्यां प्रजायेयेति स तपोऽतप्यत स तपस्तप्त्वेमांस्त्रील्लोकानसृजत पृथिवीमन्नरिक्षं दिवमिति ताल्लोकानभ्यतपत्तेभ्यस्त्रीणि ज्योतीष्यजायन्त अग्निरेव पृथिव्या अजायत वायुरन्तरिक्षाद्दिव आदित्य इति तानि ज्योतीष्यभ्यतपत् तेभ्यस्त्रयो वेदा अजायन्त अग्नेऋग्वेदो 10 वायोर्यजुर्वेद आदित्यात सामवेद'' इति, तथा 'सैषा विद्या त्रयी तपती'ति स्मृतिरपि मानवी प्रतिवेदं द्वादशवार्षिकब्रह्मचर्योपदेशिनी दृश्यते 'षात्रिंशदब्दिकं चर्य गुरौ त्रैवेदिकं व्रतमि'ति । श्राद्धप्रकरणेऽपि
यत्नेन भोजयेच्छाद्धे बह वृचं वेदपारगम् ।
शाखान्तगमथाध्वर्यु छन्दोगं वा समाप्तिगमिति ॥ त्रिवेदपारगानेव श्राद्धभुजो ब्राह्मणान् दर्शयति नाथर्ववेदाध्यायिनः । प्रत्युत निषेधः क्वचिदुपदिश्यते 'तस्मादायर्वणं न प्रवृज्यादि'ति।
प्रजापतिरकामयतेति । बहः स्यामेको वर्तमानोऽनेकः स्यामित्यर्थः । कथञ्च तथात्वमित्याह प्रजायेयेति भूतात्मनोलयेत्यर्थः । स तपोऽतप्यत इति । तप इव तप इति 'तपः' शब्देन सङ्कल्पोऽभिहितः। सत्यसङ्कल्पत्वात् परमेश्वरस्य, तपसा यदाप्यते 20 तस्य सङ्कल्पमात्रेणैव सिद्धेः । उक्तञ्च “यस्य ज्ञानमयं तपः" इति। तपोऽतप्यत सङ्कल्पमकरोदित्यर्थः। ताल्लोकानभ्यतपत् सारोद्धरणायालोचयत् । षाशिदब्दिकमित्यस्योत्तरमर्धम् “तदधिकं पादिकं वा ग्रहणान्तिकमेव वा" इति । ब्रह्मचारिणा चर्यं चरणीयं ब्रह्म। क्व ? गुरौ गुरुगृहे। किमर्थम् ? त्रैवेदिकं त्रिवेदग्रहणार्थम् । किंकालावच्छिन्नम् ? तदाह “षाट्त्रिंशदब्दिकम्" षट्त्रिंशतोऽब्दानां समाहारः 25 षट्त्रिंशदब्दं तत्र भवं षात्रिंशदब्दिकम् । “ग्रहणान्तिकमेव वा"इति यावता कालेन वेदत्रयं ग्रहोतुं शक्नोति तावत कालमित्यर्थः। 'आथर्वणेन न प्रवृञ्ज्यात्' इति आथर्वणेन कर्मणा त्रय्युक्तं कर्म न प्रवृञ्ज्यान्न मिश्रयेदिति ब्राह्मण उपदेशः ।
15